2023-02-20 14:43:01 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
यथा एकोपि स्फुलिंग: सूक्ष्मोपि शुष्कतृणसंयोगाद्वृद्धि प्राप्य महा-
नग्निर्भूत्वा सर्वं वनमेव दहेत्, एवं वासनात्मना स्थितोप्यहंकारः विषयानु-
चिन्तनेन आत्मानं स्वरूपतः प्रच्याव्य स्वयं तत्प्रतिफलनवलेन अनेकाकारेण
परिणममानः जातं विवेकमपि न्यक्कुर्वन् विवेकात्प्रावि भ्रान्तिपरंपरां
कामकर्मादीनि च वितन्वन् स्वयं प्रवर्धमानः निवृत्तप्रायमपि संसारं पुनः
प्रवर्तयेत् । अतः अप्रमादेन भवितव्यम् इत्यह वासनावृद्धित इति ।
कार्यं विषयचिन्ता । स्वरूपानन्दविस्मृत्या विषयलाभार्थं प्रयत्नः अलाभे
दुःखं, लाभे हर्षः, हर्षे दर्पः, दर्पे धर्मातिक्रमणं, तेन धियो मालिन्यं, तेन
पुनरात्मग्रहणसामर्थ्याभावः, ततश्च सर्वदा देहाद्यात्मत्वं, तेन जरामरण-
जन्मादिरूप-संसाराविच्छेदः इति पुंसः संसारो न निवर्तत इत्युक्तम्
3
१७८
॥३१४॥
तस्मात्
संसारबन्धविच्छित्यै तवयं प्रदहेद्यतिः ।
वासना प्रेर्यते ह्यन्तः चिंतया क्रियया बहिः ॥ ३१५ ॥
यतिः प्रयत्नशील: पुमान् संसारबन्धविच्छित्यै संसार हेतुभूत-
देहात्मत्वादि-सकल-बंधविनाशाय तवयं वासनातत्कार्यरूपं द्वयं प्रदहेत्
प्रकर्षेण भस्मीकुर्यात् । यथा भस्मीभूतं बीजं न रोहति तथा कुर्यात् ।
करुणया तद्वृत्तिनिमित्तं तन्नाशोपायं च कथयति वासनेति । वासना
चिंतया बहिः क्रियया च हि यस्मात् अन्तःप्रेर्यते अतः प्रदहेत् । पूर्व
कार्यशब्देन कथितं स्फुटयति चिन्तया मानस्या बहिः क्रियया च इति ।
अन्तरिचन्ता बहिश्शरीरादिना क्रिया । चित्प्रतिबिंब - बलाभावे जडस्य
मनसः क्रियाजनक- चिंतासामर्थ्यं नास्ति । तत्र चित्प्रतिफलनं च अहंकार-
द्वारैव । जडस्य शरीरस्य कर्म-करणसामर्थ्यमपि मनआदिद्वारा चिदनु-
प्रवेशादेव । तस्मात् चिन्तया बहिः क्रियया च सूक्ष्मात्मना स्थितः
अहंकारः वृद्धि प्राप्त इति विज्ञेयम् ॥३१५ ॥
ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः ।
त्रयाणां च क्षयोपायस्सर्वावस्थासु सर्वदा ॥३१६॥