This page has been fully proofread once and needs a second look.

देहात्मना संस्थित एव कामी, निरंतरानन्दस्वरूपेण स्थितौ कुतः
क्षणिकानन्दहेतुषु कामः ? तेन स्वरूपभ्रंशः कथितः । तदिदमुक्तं विलक्षण:
कामयिता कथं स्यादिति । "आत्मानं चेद्विजानीयात् अयमस्मीति
पूरुषः । किमिच्छन्कस्य कामाय शरीरमनु संज्वरेत्" इतिश्रुतेः, "आप्त-
कामं आत्मकामं अकामं शोकान्तरम् " इति च । अतोर्थसंधानपरत्वमेव
विषयानुचिन्तनसक्तत्वमेव स्वरूपविभ्रंशनद्वारा देहादौ अहंतामाबध्य भेद-
प्रसक्त्या भेदप्रसंजनेन भवबन्धहेतुः, नो चेत् सदा स्वरूपनिष्ठस्य काम्य-
कामयितृ-कामनादिभेदः कुतस्त्य इति भावः ॥ ३१२ ॥
 
तावतापि नष्टस्याहंकारस्य संजीवनं कथमिति चेदाह । कार्येति ।
 
कार्यप्रवर्धनाद्वीबीज-प्रवृद्धिः परिदृश्यते ।
कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ॥३१३॥
 
लोके कार्यप्रवर्धनात् कार्यस्यांकुरादे: प्रकर्षेण स्कंधशाखोपशाखादि-
रूपेण वर्धनात् उपचयात् बीजप्रवृद्धिः परिदृश्यते बीजाभावे तथा वृद्धेः
असंभवात् कीटादिभक्षिते बीजे अंकुरादीनामनुत्पत्तेः । अत एकमपि
बीजं धरणि-सलिल संयोग-दोहदादिना सम्यक्प्रवृद्धं अंकुरपत्र-स्कंधशाखा-
पुष्पफलरूपेण वृद्धि प्राप्य सहस्रशः बीजानि जनयतीति परिदृश्यते । कार्य-
नाशान् बीजनाशोपि, अंकुरादिनिमित्तस्य बीजस्यैव नाशे पुनः फलानुत्पत्या
बीजानि कुतस्त्यानि । अतः कार्यं विषयानुचिन्तनं भवति चेत् विकारेषु
प्रथमो योहंकारः तं विना नैव भवति, विषयानुचिन्तनवृध्या बीजभूताहंकारो
वृद्धो ज्ञेयः । एवं विवेकविज्ञाननाशितोप्यहंकारः अनादिकालप्रवृत्ततया
वासनात्मना शिष्यमाणः सदा प्रत्यग्दृष्ट्या आत्मनिनिष्ठाभावे वृद्धिं प्राप्य
पुनः संसारमापादयेत् । अतः निरंतरब्रह्मनिष्ठया अप्रमादेन स्थितौ
विषयानुचिन्तनादे-रनवकाशात् वासनात्मनापि न शिष्यते । तस्मात्कार्यं
निरोधयेत् विषयानुचिन्तनं न कुर्यात् ॥ ३१३ ॥
 
तस्य संसारसंपादकत्वमुपपादयति । वासनेति ।
 
वासनावृद्धितः कार्यं कार्यवृध्या च वासना ।
वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥३१४ ॥