This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१७७
 
देहात्मना संस्थित एव कामी, निरंतरानन्दस्वरूपेण स्थितौ कुतः

क्षणिकानन्दहेतुषु कामः ? तेन स्वरूपभ्रंशः कथितः । तदिदमुक्तं विलक्षण:

कामयिता कथं स्यादिति । "आत्मानं चेद्विजानीयात् अयमस्मीति

पूरुषः । किमिच्छन्कस्य कामाय शरीरमनु संज्वरेत्" इतिश्रुतेः, "आप्त-

कामं आत्मकामं अकामं शोकान्तरम् " इति च । अतोर्थसंधानपरत्वमेव

विषयानुचिन्तनसक्तत्वमेव स्वरूपविभ्रंशनद्वारा देहादौ अहंतामाबध्य भेद-

प्रसक्त्या भेदप्रसंजनेन भवबन्धहेतुः, नो चेत् सदा स्वरूपनिष्ठस्य काम्य-

कामयितृ-कामनादिभेदः कुतस्त्य इति भावः ॥ ३१२ ॥
 
"
 

 
तावतापि नष्टस्याहंकारस्य संजीवनं कथमिति चेदाह । कार्येति ।
 

 
कार्यप्रवर्धनाद्वीज-प्रवृद्धिः परिदृश्यते ।
 

कार्यनाशाद्वीबीजनाशस्तस्मात्कार्यं निरोधयेत् ॥३१३॥
 

 
लोके कार्यप्रवर्धनात् कार्यस्यांकुरादे: प्रकर्षेण स्कंधशाखोपशाखादि-

रूपेण वर्धनात् उपचयात् बीजप्रवृद्धिः परिदृश्यते बीजाभावे तथा वृद्धेः

असंभवात् कीटादिभक्षिते बीजे अंकुरादीनामनुत्पत्तेः । अत एकमपि

बीजं धरणि-सलिल संयोग-दोहदादिना सम्यक्प्रवृद्धं अंकुरपत्र- स्कंधशाखा-

पुष्पफलरूपेण वृद्धि प्राप्य सहस्रशः बीजानि जनयतीति परिदृश्यते । कार्य-

नाशान् बीजनाशोपि, अंकुरादिनिमित्तस्य बीजस्यैव नाशे पुनः फलानुत्पत्या

बीजानि कुतस्त्यानि । अतः कार्यं विषयानुचिन्तनं भवति चेत् विकारेषु

प्रथमो योहंकारः तं विना नैव भवति, विषयानुचिन्तनवृध्या बीजभूताहंकारो

वृद्धो ज्ञेयः । एवं विवेकविज्ञाननाशितोप्यहंकारः अनादिकालप्रवृत्ततया

वासनात्मना शिष्यमाणः सदा प्रत्यग्दृष्ट्या आत्मनिनिष्ठाभावे वृद्धिधिं प्राप्य

पुनः संसारमापादयेत् । अतः निरंतरब्रह्मनिष्ठया अप्रमादेन स्थितौ

विषयानुचिन्तनादे -रनवकाशात् वासनात्मनापि न शिष्यते । तस्मात्कार्यं

निरोधयेत् विषयानुचिन्तनं न कुर्यात् ॥ ३१३ ॥
 

 
तस्य संसारसंपादकत्वमुपपादयति । वासनेति ।
 

 
वासनावृद्धितः कार्यं कार्यवृध्या च वासना ।

वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥३१४ ॥