2023-02-20 14:43:00 by ambuda-bot
This page has not been fully proofread.
१७६
श्रीविवेकचूडामणिः सव्याख्यः
निगृह्य शत्रोरहमोवकाशः क्वचिन्नदेयो विषयानुचिन्तया ।
स एव संजीवनहेतुरस्य प्रक्षीणजंबीरतरोरिवांबु ॥ ३११ ॥
निगृह्य निग्रहं कृत्वा शत्रोरहमः सर्वनाशहेतोः अहंकारस्य, विषयानु-
चिन्तया क्वचिदप्यवकाशो न देयः, स एव विषयानुचिन्तैव अस्य अहंकारस्य
संजीवनहेतुः । वक्ष्यति हि "न प्रमादादनर्थोन्यो ज्ञानिनः स्वस्वरूपतः ।
ततो मोहस्ततोहंधीस्ततो बन्धस्ततो व्यथा " इति संजीवनहेतुरिति
विधेयप्राधान्यात् विषयानुचिन्तायाः स एवेति पुंलिगव्यपदेशः । क्षीणस्य
पुनर्वृद्धौ दृष्टान्तमाह प्रक्षीणेति । प्रक्षीणजंबीरतरो: शुष्कस्यापि जंबीर-
वृक्षस्य अंबु जलं वृद्धिहेतुभूतं भवति । एवं विवेकविज्ञानेन नाशितोप्यहंकारः
प्रमादाद्विषयानुचिन्ता यदि क्रियेत पुनः प्राप्तजीवनः संसारयतीति भावः ।
विषयानुचिन्तायामपि नष्टस्याहंकारस्य कथमुज्जीवनं इतिशंकायां
'विषयेष्वाविशच्चेतः संकल्पयति तद्गुणान् । सम्यक्संकल्पनात्कामः कामा-
त्पुंसः प्रवर्तनं । ततः स्वरूपविभ्रंशः विभ्रष्टस्तु पतत्यधः । पतितस्य विना
नाशं पुनर्नारोह इष्यते " इति प्रणालिकया विषयेषु काम: संकल्पजन्यः
संकल्पश्च सम्यक्त्वबुद्धिः आनन्दजनकत्वज्ञानं, सचानन्दः वैषयिकः मनस
एव । यदि संततं स्वस्वरूपनिष्ठः तदा कुतः विषयचिन्ता कुतस्तरां तेषु
संकल्पः कुतस्तमां कामः । ततः स्वरूपविस्मृतिः विषयचिन्तया भवति ।
यदा विस्मृतं स्वरूपं तदा अहंकारमेव आत्मत्वेन मन्यते तत्राहंधियं विना
देहानुकूलतया प्रतीयमानेषु विषयेषु कामानुत्पत्तेः । ततः अहंकारद्वारा
मनःप्राणस्थूलदेहादिकं आत्मत्वेन मत्वा पूर्ववत् विषयान्कामयमानः
संसरति, तदिदमुक्तं पूर्वं " ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा, कर्ता
भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः । प्रत्यग्दृष्ट्यात्मनि निवसता
सापनेया प्रयत्नात्, मुक्ति प्राहुस्तदिह मुनयो वासनातानवं यत्" इति
सूत्रेण श्लोकेन। अनन्तरग्रन्थः तद्विवरणरूपः ज्ञातवस्तुनः पुरुषस्य निरंतर
ब्रह्मनिष्ठाम् द्रढयति ॥ ३११॥ तत्र यास्य संसारहेतुरित्यस्यार्थमाह ।
देहात्मनेति ।
"(
देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात् ।
अतोर्थ-संधानपरत्वमेव भेदप्रसक्त्या भवबन्धहेतुः ॥ ३१२ ॥