This page has been fully proofread once and needs a second look.

१४
 
श्रीविवेकचूडामणिः सव्याख्यः
 
सा पटकारणत्वं नाश्नुते । अपितु मृत्सत्वे घटसत्वं मृदभावे घटाभाव

इत्यन्वयव्यतिरेकसहचारग्रहवशात् घटकारणत्वं भजते । एवं विवेकादि-

चतुष्टयसत्व एव (सति ब्रह्मणि नितरां स्थितिप्रयोजक-ब्रह्मजिज्ञासायाः

सम्भवात् तदभावे चासंभवात् अन्वयव्यतिरेक सहचारग्रहाधीना तेषां

विवेकादीनां सन्निष्ठापरपर्याय-फलपर्यन्त-ब्रह्मजिज्ञासा-कारणत्वावगतिः

इत्युक्तम्। मनीषिभिः कथितानीति । तत्र मनीषित्वं च श्रुतितात्पर्यं-
य-
ज्ञानवत्वं । श्रुत्यवलम्बनाभावे एतादृशाधिकारिविशेषणानां दुर्ज्ञानत्वात् ।

तादृशाश्च मनीषिणः बादरायणप्रभृतयः । ते किल "अथातो ब्रह्म-

जिज्ञासा " इति सूत्रघटकाथशब्देन साधनचतुष्टय-सम्पत्यानन्तर्यं सूत्रयन्तः

ब्रह्मजिज्ञासाधिकारिण-मेवंविधं सूत्रयामासुः इति शारीरकमीमांसाद्याधि -

करण-तृतीयवर्णक-भाष्यादर्थतोऽवगम्यते । एतादृशविशेषणलंभकश्रुतयस्तु,

"
यत्कृतकं तदनित्यं " इति न्यायवती "तद्यथेहकर्मचितो लोकः क्षीयते
 
""
 

एवमेवामुत्र पुण्यचितो लोकः क्षीयते '"यो वै भूमा तदमृतम् अतोन्यदार्तं'
 
"
 
(6
 
"
 
"
" न जायते म्रियते वा विपश्चित् " इत्यादिश्रुतिः आत्मनः नित्यत्वं

अनात्मनः अनित्यत्वं च बोधयतीतिविवेक-लम्भिका । "परीक्ष्य लोकान्

कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन " "न वा अरे पत्युः

कामायेत्यारभ्य आत्मनस्तु कामाय सर्वप्रियं भवति" इत्यंता श्रुतिः

अनात्ममात्रे वैराग्यप्रतिपादिका । "शान्तो दान्त उपरतस्तितिक्षुः-

समाहितश्श्रद्धावित्तो भूत्वाऽऽत्मन्येवात्मानं पश्येत् " इतिश्रुतिः शमादिषट्कं

बोधयति । "न स पुनरावर्तते " इति श्रुतिः मोक्षस्य नित्यत्वं वदन्ती

तत्रेच्छामादधाति। उपनिषदामर्थवादत्वं वदतां कर्ममीमांसकानां मते

एतासां स्वार्थे तात्पर्यंनास्तीत्येव ज्ञानसंभवात् "ब्रह्मजिज्ञासितव्यं तत्र

च एतादृशविशेषणविशिष्टोधिकारीति " ज्ञानस्य दुर्लभत्वात् मनीषिभिः


कथितानीत्युक्तम् । तथाच प्रमाणान्तरानधिगत-कालत्रयाबाध्य-परम-

पुरुषार्थ -स्वरूपब्रह्म- प्रतिपादकत्वा-दुपनिषदां तात्विक प्रामाण्यस्यात्रैव सम्भ-

वात् तत्तद्वाक्य- समर्पित - -विवेकादिविशिष्टस्यैव "सोन्वेष्टव्यः स विजि
-
ज्ञासितव्यः" इत्यादिवाक्यविहित-जिज्ञासायोग्यतेति सर्वं चतुरस्रम् ॥ १८ ॥

तत्र विवेकिनो विरक्तस्येत्यादिना कथितं विवेकादिकं क्रमतो निर्दिशति
आदावित्यादिना ।
 
(6
 
(6
 
(6
 
"