2023-02-20 14:42:33 by ambuda-bot
This page has not been fully proofread.
१४
श्रीविवेकचूडामणिः सव्याख्यः
सा पटकारणत्वं नाश्नुते । अपितु मृत्सत्वे घटसत्वं मृदभावे घटाभाव
इत्यन्वयव्यतिरेकसहचारग्रहवशात् घटकारणत्वं भजते । एवं विवेकादि-
चतुष्टयसत्व एव (सति ब्रह्मणि नितरां स्थितिप्रयोजक-ब्रह्मजिज्ञासायाः
सम्भवात् तदभावे चासंभवात् अन्वयव्यतिरेक सहचारग्रहाधीना तेषां
विवेकादीनां सन्निष्ठापरपर्याय-फलपर्यन्त-ब्रह्मजिज्ञासा-कारणत्वावगतिः
इत्युक्तम्। मनीषिभिः कथितानीति । तत्र मनीषित्वं च श्रुतितात्पर्यं-
ज्ञानवत्वं । श्रुत्यवलम्बनाभावे एतादृशाधिकारिविशेषणानां दुर्ज्ञानत्वात् ।
तादृशाश्च मनीषिणः बादरायणप्रभृतयः । ते किल अथातो ब्रह्म-
जिज्ञासा " इति सूत्रघटकाथशब्देन साधनचतुष्टय-सम्पत्यानन्तर्यं सूत्रयन्तः
ब्रह्मजिज्ञासाधिकारिण-मेवंविधं सूत्रयामासुः इति शारीरकमीमांसाद्याधि -
करण-तृतीयवर्णक-भाष्यादर्थतोऽवगम्यते । एतादृशविशेषणलंभकश्रुतयस्तु,
यत्कृतकं तदनित्यं " इति न्यायवती "तद्यथेहकर्मचितो लोकः क्षीयते
""
एवमेवामुत्र पुण्यचितो लोकः क्षीयते 'यो वै भूमा तदमृतम् अतोन्यदार्तं'
"
(6
"
" न जायते म्रियते वा विपश्चित् " इत्यादिश्रुतिः आत्मनः नित्यत्वं
अनात्मनः अनित्यत्वं च बोधयतीतिविवेक-लम्भिका । परीक्ष्य लोकान्
कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन " न वा अरे पत्युः
कामायेत्यारभ्य आत्मनस्तु कामाय सर्वप्रियं भवति" इत्यंता श्रुतिः
अनात्ममात्रे वैराग्यप्रतिपादिका । "शान्तो दान्त उपरतस्तितिक्षुः-
समाहितश्श्रद्धावित्तो भूत्वाऽऽत्मन्येवात्मानं पश्येत् " इतिश्रुतिः शमादिषट्कं
बोधयति । "न स पुनरावर्तते " इति श्रुतिः मोक्षस्य नित्यत्वं वदन्ती
तत्रेच्छामादधाति। उपनिषदामर्थवादत्वं वदतां कर्ममीमांसकानां मते
एतासां स्वार्थे तात्पर्यंनास्तीत्येव ज्ञानसंभवात् "ब्रह्मजिज्ञासितव्यं तत्र
च एतादृशविशेषणविशिष्टोधिकारीति " ज्ञानस्य दुर्लभत्वात् मनीषिभिः
च
कथितानीत्युक्तम् । तथाच प्रमाणान्तरानधिगत-कालत्रयाबाध्य-परम-
पुरुषार्थ -स्वरूपब्रह्म- प्रतिपादकत्वा-दुपनिषदां तात्विक प्रामाण्यस्यात्रैव सम्भ-
वात् तत्तद्वाक्य- समर्पित - विवेकादिविशिष्टस्यैव "सोन्वेष्टव्यः स विजि
ज्ञासितव्यः" इत्यादिवाक्यविहित-जिज्ञासायोग्यतेति सर्वं चतुरस्रम् ॥ १८ ॥
तत्र विवेकिनो विरक्तस्येत्यादिना कथितं विवेकादिकं क्रमतो निदिशति
आदावित्यादिना ।