This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
विच्छिद्य अपुनर्भवं विनाश्य आत्मसाम्राज्यसुखं अनन्याधीननिरंतराखण्डा-

नंदं यथेष्टं निरर्गलं स्फुटं करतलामलकवत् भुंक्ष्व अनुभव ॥ ३०८॥
 

 
अनन्तरकर्तव्यमुपदिशति । तत इति ।

 
ततोहमादे-र्विनिवर्त्य वृत्ति
तिं
संत्यक्तरागः परमार्थलाभात् ।

तूष्णीं समास्वात्मसुखानुभूत्या

पूर्णात्मना ब्रह्मणि निर्विकल्पः॥३०९॥
 
१७५
 

 
ततः अहंकारादौ तादात्म्यभ्रान्तिनाशानन्तरं, अहमादे: पंचमी,

अहंकारादेः सकाशात् वृत्तितिं विनिवर्त्य मनः पराङ्मुखीकृत्य, परमार्थ-

लाभात् नित्यस्वप्रकाशानन्दरूपोत्कृष्टप्रयोजनलाभात्, बहिः संत्यक्तरागः

विषयविमुख इति यावत्, आत्मसुखानुभूत्या निर्विकल्पः पूर्णात्मना ब्रह्मणि

तूष्णीं समास्व ॥३०९॥
 

 
पुनःपुनः उपदिष्टस्योपदेशे कारणमाह । समूलकृत्तोपीति ।

 
समूलकृत्तोपि महानहं पुन-
र्ग्

र्व्
युल्लेखित-स्स्याद्यदि चेतसा क्षणम् ।
 

संजीव्य विक्षेपशतं करोति
 

नभस्वता प्रावृषि वारिदो यथा ॥ ३१०॥
 

 
महान् अनादिकालात् शाखोपशाखतया वृद्धः अहं अहंकारः, समूल-

कृत्तोपि विवेकविज्ञानेन स्वमूलभूतेन अज्ञानेन सह छिन्नोपि पुनः चेतसा

यदि क्षणं व्युल्लेखितः प्रबुद्धेन पुरुषेण भीकरस्वप्न इव स्मृतः स्यात्,

संजीव्य पुनरुत्पद्य विक्षेपशतं करोति । तत्र दृष्टान्तः शरदादौ नष्टोपि

नामावशेषतां नीतोपि वारिदः मेघः, प्रावृषि वर्षतार्तौ नभस्वता वायुना नीतः

संभृतसलिलः यथा वर्षति तथा ॥ ३१० ॥
 

 
नष्टस्य कथं जीवनमिति चेत् मृतस्यामृतसेक इव विषयानुचिन्तन-

मेव तत्र हेतुरिति सदृष्टान्तमाह । निगृह्येति ।