This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
विच्छिद्य अपुनर्भवं विनाश्य आत्मसाम्राज्यसुखं अनन्याधीननिरंतराखण्डा-
नंदं यथेष्टं निरर्गलं स्फुटं करतलामलकवत् भुंक्ष्व अनुभव ॥ ३०८॥
 
अनन्तरकर्तव्यमुपदिशति । तत इति ।
ततोहमादे-विनिवर्त्य वृत्ति
संत्यक्तरागः परमार्थलाभात् ।
तूष्णीं समास्वात्मसुखानुभूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः॥३०९॥
 
१७५
 
ततः अहंकारादौ तादात्म्यभ्रान्तिनाशानन्तरं, अहमादे: पंचमी,
अहंकारादेः सकाशात् वृत्ति विनिवर्त्य मनः पराङ्मुखीकृत्य, परमार्थ-
लाभात् नित्यस्वप्रकाशानन्दरूपोत्कृष्टप्रयोजनलाभात्, बहिः संत्यक्तरागः
विषयविमुख इति यावत्, आत्मसुखानुभूत्या निर्विकल्पः पूर्णात्मना ब्रह्मणि
तूष्णीं समास्व ॥३०९॥
 
पुनःपुनः उपदिष्टस्योपदेशे कारणमाह । समूलकृत्तोपीति ।
समूलकृत्तोपि महानहं पुन-
र्ग्युल्लेखित-स्स्याद्यदि चेतसा क्षणम् ।
 
संजीव्य विक्षेपशतं करोति
 
नभस्वता प्रावृषि वारिदो यथा ॥ ३१०॥
 
महान् अनादिकालात् शाखोपशाखतया वृद्धः अहं अहंकारः, समूल-
कृत्तोपि विवेकविज्ञानेन स्वमूलभूतेन अज्ञानेन सह छिन्नोपि पुनः चेतसा
यदि क्षणं व्युल्लेखितः प्रबुद्धेन पुरुषेण भीकरस्वप्न इव स्मृतः स्यात्,
संजीव्य पुनरुत्पद्य विक्षेपशतं करोति । तत्र दृष्टान्तः शरदादौ नष्टोपि
नामावशेषतां नीतोपि वारिदः मेघः, प्रावृषि वर्षता नभस्वता वायुना नीतः
संभृतसलिलः यथा वर्षति तथा ॥ ३१० ॥
 
नष्टस्य कथं जीवनमिति चेत् मृतस्यामृतसेक इव विषयानुचिन्तन-
मेव तत्र हेतुरिति सदृष्टान्तमाह । निगृह्येति ।