This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
प्रतिबिंबग्राहिणि, स्वस्थितिमुषि स्वस्य या सहजा स्थितिः चिदानन्दरूपता

तां मुष्णातीति स्वस्थितिमुद् तस्मिन् पराक्त्वापादकत्वेन स्वस्वरूपच्यावके

अहंकर्तरि अहंकारे, अनात्मनि अहमितिमतितिं, सहसा मुंच इति परमोपदेशः
 

॥३०६॥
 
१७४
 

 
उक्तमर्थं बुद्धौ सम्यगारोहाय कृपया पुनराह । सदेति ।

 
सदैकरूपस्य चिदात्मनो विभो-

रानन्दमूर्तेरनवद्यकीर्तेः ।

नैवान्यथा क्वाप्यविकारिणस्ते
 

विनाहमध्यास-ममुष्य संसृतिः ॥ ३०७॥
 

 
सर्वाणि विशेषणानि हेतुगर्भाणि अहंकाराध्यासेन नानारूपता जडता

परिच्छिन्नता दुःखं दुर्यशस्त्वं च प्राप्तं इति द्योतयितुम् । सदा नित्यं एक-

रूपस्य, सदेकरूपस्य इति वा पाठः कालत्रयाबाध्यै कस्वरूपस्येत्यर्थः ।

चिदात्मनो विभोः अपरिच्छिन्नस्य आनन्दमूर्तेः अनवद्यकीर्तेः श्रुतिशिखरेषु

परब्रह्मस्वरूपतया बोध्यमानतया नित्यशुद्धबुद्धमुक्तस्वरूपस्य अविकारिणः

ते तव, अमुष्य पराच: अहंकारस्य, अहमध्यासं विना तादात्म्यभ्रान्ति-

मन्तरा अहंकारे अहमिति या बुद्धिः तां विनेति यावत्, अमुष्येति षष्ठी

संबन्धार्थिका संसृतिः जनिमृतिजरादुःखजटिला अन्यथा प्रकारान्तरेण वस्तुत

इति यावत् नैव संभवति ॥ ३०७ ॥
 

 
यस्मादेवं
 

 
तस्मादहंकारमिमं स्वशत्रुं
 

भोक्तुर्गले कण्टकवत्प्रतीतम् ।

विच्छिद्य विज्ञानमहासिना स्फुटं
 

भुंक्ष्वात्म-साम्राज्यसुखं यथेष्टम् ॥ ३०८॥
 

 
भुंजानस्य कण्ठे कण्टकमिव प्रतिपत्नं स्वरूपानन्दानुभव-प्रतिबन्धक-

तया स्वशत्रुरुं इमं प्रत्यक्षसिद्धं अहंकारं, तस्मादसंसारिणोपि संसारा-

पादकत्वात्, विज्ञानमहासिना पंचकोशविवेकजनित- विज्ञाननिशितखड्गेन