This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
१७३
 
सुखकरं इमं निधिं ब्रह्मानन्दाभिधं, धीरः वश्यात्मा अनुभोक्तुं क्षमः समर्थः ।
एतेन सम्यग्विवेकजनित - विज्ञाननाश्यत्वं अहंकारस्योक्तम् ॥३०३॥
 
यावद्वा यत्किंचिद्विषदोषस्फूर्ति-रस्ति चेद्देहे ।
कथमारोग्याय भवेत् तद्वदहंतापि योगिनो मुक्त्यै ॥ ३०४ ॥
वासनात्मनापि साहंता नावशेषणीयेत्याह । पूर्वश्लोके निर्मूल्ये-
त्युक्तं विव्रियते । यावदिति । देहे यावद्वा यत्किचित् ईषदपि इति-
पदद्वयस्यार्थ: । विषदोषस्फूतिरस्ति चेत् कथमारोग्याय भवेत् । तद्वदहं -
तापि वासनात्मना वा यावदस्ति तावद्योगिनो मुक्त्यै प्रतिबंधिका इति
भावः । अतः निरवशेषमुन्मूलनं कार्यं तस्याः ॥ ३०४॥
 
तदातु
 
अहमोत्यंतनिवृत्या तत्कृतनानाविकल्प-संहृत्या ।
प्रत्यक्तत्वविवेकादयमह-मस्मीति विन्दते तत्वम् ॥३०५॥
 
अहमः अहंकारस्य अत्यन्तनिवृत्या अपुनरुत्पादं नाशेन, तत्कृत-
नानाविकल्प- संहृत्या निमित्तापायान्नैमित्तिकानां अपाय इति द्योतयति
तत्कृतेति। प्रथमविकारभूताहंकारमूलकानां नानाविधानां कुलगोत्र-नाम-
रूपा–श्रमाद्याश्रितानां अभिमानानां विविधकल्पनारूपाणां संहृत्या, अनेन
सर्वभ्रान्तिनिरास उक्तः । तदा प्रत्यक्तत्वविवेकात् आत्मयाथात्म्यस्य
विविच्य अनात्मासंकीर्णतया ज्ञानात् अयमहमस्मीति तत्वं विन्दते
अपरोक्षतया जानाति ॥ ३०५ ॥
 
अहंकर्तर्यस्मिन् अहमिति - मति मंच सहसा
विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि ।
यदध्यासात्प्राप्ता जनिमृतिजरा दुःखबहुला
 
प्रतीचश्चिन्मूर्तेः तव सुखतनोः संसृतिरियम् ॥३०६॥
अहमिति । प्रतीचः आन्तरस्य चिन्मूर्ते: ज्ञानशरीरस्य, सुखतनोः
आनन्दघनस्य, तव आत्मनः यदध्यासात् यस्मिन्नहमिति तादात्म्य भ्रान्त्या,
जनिमृतिजरा दुःखबहुला स्पष्टं, इयमनुभवसिद्धा संसृतिः, प्राप्ता प्राप्तेव
भाति, अस्मिन् विकारात्मनि सूक्ष्मभूतकार्ये, आत्मप्रतिफलजुषि आत्म-