This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
अहंकार एव ग्रहः गृण्हातीति राहुः तस्मात्स्वरूपतिरोधायकान्मुक्तः

चन्द्रवत् स्वरूपमुपपद्यते प्रत्यक्त्वेन प्राप्नोति । स्वस्वरूपं कीदृगित्यत

आह विमल: शुद्धः पूर्ण: अपरिच्छिन्नः सदानन्दः नित्यसुखरूपः स्वयंप्रभः

चिद्रूपतया स्वयंप्रकाशः इत्यर्थः । एतद्धर्मचतुष्टयं राहुमुक्ते चन्द्रेपि


समानं । तत्र सदानन्दो येन इत्यर्थो वाच्यः । स्वरूपप्राप्तेरेव मुक्तित्वात्

अहंकारमोक्षे मुक्तिः सिध्यतीत्युक्तम् ॥ ३०१॥
 
१७२
 

 
तस्य कल्पिततया नाशं संभावयति ।
 
य इति ।
 

 
यो वा पुरैषोहमिति प्रतीतः बुध्याऽविविक्तस्तमसातिमूढया ।

तस्यैव निश्शेषतया विनाशे ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥३०२ ॥
 

 
तमसा अज्ञानेन अतिमूढया आत्मस्वरूपं विविच्य ज्ञातुमसमर्थया

बुद्ध्या अविविक्तः पुरा एषोहमिति यो वा, वेति प्रसिद्धौ प्रतीतः परिच्छिन्न-

तया ज्ञातः तस्य निश्शेषतया विनाश एव इत्येवकारः भिन्नक्रमः,

ब्रह्मात्मभावः प्रतिबन्धशून्यः । नोचेत् विपरीतभावना यावत्पर्यन्तं न

तावदपरिच्छिन्न-
त्र-
ब्रह्मात्मत्वज्ञानं सुलभम् ॥३०२॥
 

 
तस्याहंकारस्य नाशः कथमिति चेदाह । ब्रह्मेति

 
ब्रह्मानन्दनिधि-र्महाबलवताऽहंकारघोराहिना
 

संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डैस्त्रिभि-र्मस्तकैः ।

विज्ञानाख्यमहासिना द्युतिमता विच्छिद्य शीर्षत्रयम्

निर्मूल्याहिमिमं निधिधिं सुखकरं धीरोनुभोक्तुं क्षमः ॥ ३०३॥
 

 
सुखबोधार्थं रूपकं कल्पयति । ब्रह्मानन्द एव निधिः हिरण्यनिधिवत्
*

सः महाबलवता विषयक्षीरपानेन रूढमूलतया महाबलवता, अहंकार एव

घोराहिः भयानकसर्पः तेन गुणमयैः सत्वरजस्तमोरूपैः त्रिभिः चण्डैः भीकरैः

मस्तकैः आत्मनि स्वस्मिन् स्थितैः संवेष्ट्य आवृत्य रक्ष्यते अनुभोक्तुमर्हः

क्रियते । विज्ञानाख्यमहासिना निदिध्यासनजन्यानुभवनाम्ना महता खड्गेन

द्युतिमता निशितेन स्वयंप्रकाशात्मविषयकतया द्युतिमत्वं, शीर्षत्रयं सत्व-

रजस्तमोगुणात्मकं विच्छिद्य अहिं अहंकारसर्प निर्मूल्य निरवशेषं कृत्वा,