This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
अहंकार एव ग्रहः गृहातीति राहुः तस्मात्स्वरूपतिरोधायकान्मुक्तः
चन्द्रवत् स्वरूपमुपपद्यते प्रत्यक्त्वेन प्राप्नोति । स्वस्वरूपं कीदृगित्यत
आह विमल: शुद्धः पूर्ण: अपरिच्छिन्नः सदानन्दः नित्यसुखरूपः स्वयंप्रभः
चिद्रूपतया स्वयंप्रकाशः इत्यर्थः । एतद्धर्मचतुष्टयं राहुमुक्ते चन्द्रेपि

समानं । तत्र सदानन्दो येन इत्यर्थो वाच्यः । स्वरूपप्राप्तेरेव मुक्तित्वात्
अहंकारमोक्षे मुक्तिः सिध्यतीत्युक्तम् ॥ ३०१॥
 
१७२
 
तस्य कल्पिततया नाशं संभावयति ।
 
य इति ।
 
यो वा पुरैषोहमिति प्रतीतः बुध्याऽविविक्तस्तमसातिमूढया ।
तस्यैव निश्शेषतया विनाशे ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥३०२ ॥
 
• तमसा अज्ञानेन अतिमूढया आत्मस्वरूपं विविच्य ज्ञातुमसमर्थया
बुध्या अविविक्तः पुरा एषोहमिति यो वा, वेति प्रसिद्धौ प्रतीतः परिच्छिन्न-
तया ज्ञातः तस्य निश्शेषतया विनाश एव इत्येवकारः भिन्नक्रमः,
ब्रह्मात्मभावः प्रतिबन्धशून्यः । नोचेत् विपरीतभावना यावत्पर्यन्तं न
तावदपरिच्छिन्न-
त्र- ब्रह्मात्मत्वज्ञानं सुलभम् ॥३०२॥
 
तस्याहंकारस्य नाशः कथमिति चेदाह । ब्रह्मेति
ब्रह्मानन्दनिधि-र्महाबलवताऽहंकारघोराहिना
 
संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डैस्त्रिभि-र्मस्तकैः ।
विज्ञानाख्यमहासिना द्युतिमता विच्छिद्य शीर्षत्रयम्
निर्मूल्याहिमिमं निधि सुखकरं धीरोनुभोक्तुं क्षमः ॥ ३०३॥
 
सुखबोधार्थं रूपकं कल्पयति । ब्रह्मानन्द एव निधिः हिरण्यनिधिवत्
* सः महाबलवता विषयक्षीरपानेन रूढमूलतया महाबलवता, अहंकार एव
घोराहिः भयानकसर्पः तेन गुणमयैः सत्वरजस्तमोरूपैः त्रिभिः चण्डैः भीकरैः
मस्तकैः आत्मनि स्वस्मिन् स्थितैः संवेष्ट्य आवृत्य रक्ष्यते अनुभोक्तुमर्हः
क्रियते । विज्ञानाख्यमहासिना निदिध्यासनजन्यानुभवनाम्ना महता खड्गेन
द्युतिमता निशितेन स्वयंप्रकाशात्मविषयकतया द्युतिमत्वं, शीर्षत्रयं सत्व-
रजस्तमोगुणात्मकं विच्छिद्य अहिं अहंकारसर्प निर्मूल्य निरवशेषं कृत्वा,