This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
त्यजाभिमानं कुलगोत्रनाम

रूपाश्रमेष्वार्द्र-शवाश्रितेषु ।

लिंगस्य धर्मानपि कर्तृतादीं-

स्त्यक्त्वा भवाखण्ड-सुखस्वरूपः ॥२९८॥
 

 
स्वाध्यासापनयं कुरु इत्यत्रोक्तं अर्थं स्फुटयति । त्यजेति । आर्द्रश-

वाश्रितेषु स्थूलदेहाश्रितेषु कुलगोत्रनाम-रूपाश्रमेषु अभिमानं ममतां त्यज ।

एवं लिंगस्य सूक्ष्मदेहस्य धर्मान् कर्तृतादीनपि त्यक्त्वा अनित्यत्वात्

विकारित्वाच्च स्थूलसूक्ष्मयोः अखण्डसुखस्वरूपः भव इत्युपदेशः
 

आशीरच ॥२९८॥
 

 
सर्वानर्थहेतुं आत्मानुभूतौ मुख्यं प्रतिबंधकं आह यस्मिन्ननुन्मूलिते

इतरन्नैव जायते " सन्त्यन्य " इत्यादिभिः त्रयोदशभिः ॥
 

 
सन्त्यन्ये प्रतिबन्धाः पुंसः ससांरहेतवो दृष्टाः ।

तेषामेषां मूलं प्रथमविकारो भवत्यहंकारः ॥ २१९॥
 
१७.१
 

 
पुंसः पुरुषस्य संसारहेतवः रागद्वेषादयः अन्ये अहंकारादन्ये प्रति-

बन्धाः आत्मज्ञानानुत्पत्तिप्रयोजकाः दृष्टाः । तेषामेषां अज्ञानप्रथमविकारः

अहंकारः मूलं भवति ॥२९९॥
 

 
यावत्स्यात्स्वस्य संबंधोऽहंकारेण दुरात्मना ।

तावन्नलेशमात्रापि मुक्तिवार्ता विलक्षणा ॥ ३००॥
 

 
दुरात्मना सकलबन्धहेतुतया दुष्टस्वभाववता अहंकारेण, यावत्स्वस्य

पुंसः संबन्ध: स्यात् तावत्पर्यन्तं, विलक्षणा बंधविरुद्ध - -नित्यनिरतिशय-

सुखस्वरूपा या मुक्तिः तद्वार्ता लेशमात्रापि न संभवति । सर्वबन्ध-

मूलभूताऽहंकारवान् न सुतरां मुक्तशब्दार्ह इति भावः ॥ ३०० ॥
 

 
तदभावे मुक्तिमाह । अहंकारेति ।
 

 
अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते ।

चन्द्रवद्विमल: पूर्णः सदानन्दः स्वयं-प्रभः ॥३०१॥
 
1