This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
विकारिणां सर्वविकारवेत्ता

नित्योऽविकारो भवितुं समर्हति ।

मनोरथस्वप्न- सुषुप्तिषु स्फुटं

पुनःपुनः दृष्टमसत्वमेतयोः ॥ २९६ ॥
 

 
विकारिणां देहादीनां जन्मादिनाशान्ताः ये विकाराः तेषां सर्वेषां

वेत्ता यः नित्यः अविकारश्च स भवितुं समर्हति युज्यते अनित्यत्वे सर्व-

विकारवेत्तृत्वासंभवात्। स्वस्य विकारवत्वे कर्तृ-कर्मविरोधेन तज्ज्ञाना-

संभवात् अनित्यत्वाच्च स्वविकारज्ञाने व्यापृतस्य इतरविकारि - विकार-

ज्ञानासंभवाच्च । अतः नित्यत्वं अविकारत्वं च वक्तव्यम् । एतेन बुद्धि-

सुखदुःखादिमत्वेन स्वीक्रियमाणस्य तार्किकात्मनः नित्यत्वं दुर्घटमिति

सूचितम् । पिण्डतदभिमानिनोः आत्मत्वं न संभवतीत्याह मनोरथेति ।

मनोरथे मनोराज्ये स्वप्ने सुषुप्तौ च एतयोः पिण्डतदभिमानिनोः पुनः

पुनरसत्वं स्फुटं दृष्टं प्रसिद्धं धारावाहिक्यां कल्पनायां व्यासक्तमनसा

वर्षवातातपादि-बाधा न ज्ञायते तदा शरीरभानाभावात् । तत्सत्वेपि

तत्राभिमानाभावात् अभिमानिनश्च विशिष्टस्याभावो ज्ञेयः । एवं स्वप्ने

शरीरान्तरस्यैव सृष्टे: तदभिमान्यपि अन्य एव । सर्वदा साक्षी एकः

अत एवोक्तं " स्वप्नेर्थशून्ये सृजति स्वशक्त्या भोक्त्रादिविश्वं मन एव

सर्वं " इति । सुषुप्तौ पिण्डाहंकारयोः अभावः सिद्ध एव इति स्फुटं

दृष्टमित्युक्तम् । एतेन सर्वभावाभावसाक्षी नित्यः एकरूपः इत्युक्तं

भवति ॥ २९६॥
 
१७०
 

 
अतोभिमानं त्यज मांसपिण्डे
 

पिण्डाभिमानिन्यपि बुद्धिकल्पिते ।

कालत्रयाबाध्यमखण्डबोधं
 

ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् ॥२९७॥

 
अतः अनित्यत्वात् विकारित्वाच्च मांसपिण्डे बुद्धिकल्पिते पिण्डा-

भिमानिन्यपि चित्प्रतिबिंबे अभिमानं आत्मबुद्धिधिं त्यज । तर्ह्यहं क इति

चेत् कालत्रयाबाध्यं नित्यबोधं स्वं आत्मानं ज्ञात्वा शान्तितिं आत्यन्तिक-

दुःखनिवृत्तितिं उपैहि मुक्तितिं लभस्व ॥२९७॥