This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
विकारिणां सर्वविकारवेत्ता
नित्योऽविकारो भवितुं समर्हति ।
मनोरथस्वप्न- सुषुप्तिषु स्फुटं
पुनःपुनः दृष्टमसत्वमेतयोः ॥ २९६ ॥
 
विकारिणां देहादीनां जन्मादिनाशान्ताः ये विकाराः तेषां सर्वेषां
वेत्ता यः नित्यः अविकारश्च स भवितुं समर्हति युज्यते अनित्यत्वे सर्व-
विकारवेत्तृत्वासंभवात्। स्वस्य विकारवत्वे कर्तृ-कर्मविरोधेन तज्ज्ञाना-
संभवात् अनित्यत्वाच्च स्वविकारज्ञाने व्यापृतस्य इतरविकारि - विकार-
ज्ञानासंभवाच्च । अतः नित्यत्वं अविकारत्वं च वक्तव्यम् । एतेन बुद्धि-
सुखदुःखादिमत्वेन स्वीक्रियमाणस्य तार्किकात्मनः नित्यत्वं दुर्घटमिति
सूचितम् । पिण्डतदभिमानिनोः आत्मत्वं न संभवतीत्याह मनोरथेति ।
मनोरथे मनोराज्ये स्वप्ने सुषुप्तौ च एतयोः पिण्डतदभिमानिनोः पुनः
पुनरसत्वं स्फुटं दृष्टं प्रसिद्धं धारावाहिक्यां कल्पनायां व्यासक्तमनसा
वर्षवातातपादि-बाधा न ज्ञायते तदा शरीरभानाभावात् । तत्सत्वेपि
तत्राभिमानाभावात् अभिमानिनश्च विशिष्टस्याभावो ज्ञेयः । एवं स्वप्ने
शरीरान्तरस्यैव सृष्टे: तदभिमान्यपि अन्य एव । सर्वदा साक्षी एकः
अत एवोक्तं " स्वप्नेर्थशून्ये सृजति स्वशक्त्या भोक्त्रादिविश्वं मन एव
सर्वं " इति । सुषुप्तौ पिण्डाहंकारयोः अभावः सिद्ध एव इति स्फुटं
दृष्टमित्युक्तम् । एतेन सर्वभावाभावसाक्षी नित्यः एकरूपः इत्युक्तं
भवति ॥ २९६॥
 
१७०
 
अतोभिमानं त्यज मांसपिण्डे
 
पिण्डाभिमानिन्यपि बुद्धिकल्पिते ।
कालत्रयाबाध्यमखण्डबोधं
 
ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् ॥२९७॥
अतः अनित्यत्वात् विकारित्वाच्च मांसपिण्डे बुद्धिकल्पिते पिण्डा-
भिमानिन्यपि चित्प्रतिबिंबे अभिमानं आत्मबुद्धि त्यज । तर्ह्यहं क इति
चेत् कालत्रयाबाध्यं नित्यबोधं स्वं आत्मानं ज्ञात्वा शान्ति आत्यन्तिक-
दुःखनिवृत्ति उपैहि मुक्ति लभस्व ॥२९७॥