This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
सर्वात्मना दृश्यमिदं मृषैव
 
नैवाहमर्थः क्षणिकत्वदर्शनात् ।
जानाम्यहं सर्वमितिप्रतीतिः
 
कुतोहमादेः क्षणिकस्य सिध्येत् ॥२९४॥
 
अहंपदार्थ: सत्यः नित्यश्च इदं दृश्यं मृषैव क्षणिकत्वदर्शनात् क्षणे
अहं पश्यामीति क्षणे अहं शृणोमीति एवं अहं जिघ्रामि रसयामि गच्छामी-
त्यादिना यत्र यत्र अहंवृत्तिसंबन्धः ससः अहमहमित्यभिलप्यते नहि बहूनां
अहंत्वं संभवति आत्मनः एकत्वात् । यदा अहंवृत्तिसम्बन्धः तदैषां भानं
वृत्तेः क्षणिकत्वात् सम्बद्धानां च तथात्वमेव अभासमानस्य सत्वे प्रमाणा-
भावात् अतः जडत्वेन क्षणिकत्वेन सर्वात्मना सर्वप्रकारैश्च इदं दृश्यं मृषैव
नैवाहमर्थः । तदुपपादयति अहं सर्वं जानामीति प्रतीतिः क्षणिकस्य
अहमादेः कथं सिध्येत् इति । नहि चक्षुः रसं जानाति श्रोत्रं वा रूपं अतः
गन्धाय घ्राणं " इत्यादिश्रुत्या तेषां रूपाद्याकार-वृत्तिकरणत्वेपि नाह-
मर्थत्वम् । नहि मनो वा स्वकीयवृत्ती: ज्ञातुमीष्टे जडत्वात् कर्तृ-कर्म-
विरोधाच्च ॥ २९४॥
 
अतः आत्मा अन्यः । तत्स्फुटयति । अहमिति ।
अहंपदार्थ-स्त्वहमादिसाक्षी
 
(4
 
नित्यं सुषुप्तावपि भावदर्शनात् ।
ब्रूते जो नित्य इतिश्रुतिस्स्वयं
तत्प्रत्यगात्मा सदसद्विलक्षणः ॥२९५ ॥
 
"
 
अहमादे: दृश्यस्य अहंपदार्थत्वाभावे कस्य तथात्वमिति चेत् आह
अहंपदार्थस्तु तुशब्द: दृश्यनाम् अहंपदार्थत्वव्यावर्तकः । अहमादिसाक्षी
अहमादीनां सर्वेषां अज्ञानादिदृश्यानां साक्षी नित्यं वस्तु सुषुप्तावपि यदा
अहंवृत्तेरभावः लयः तस्यां सुषुप्तावपि भावदर्शनात् "सुखमह-मस्वाप्सम्
इति । अनुभवे विवदमानं आह ब्रूत इति । अजो नित्यः शाश्वतोयं
पुराणो न हन्यते हन्यमाने शरीरे " इत्यात्मा नित्य इति ब्रूते श्रुतिः
स्वयं, तत् तस्मात् कारणात् प्रत्यगात्मा सच्चिदानन्दरूपः आत्मा
सदसद्विलक्षणः व्यक्ताव्यक्तभिन्न इत्यर्थः ॥ २९५॥
 
(1
 
F