This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
स्वप्राकाशमिति। स्वप्रकाशं चिद्रूपतया स्वतः सिद्धं, अधिष्ठानं

सर्वकल्पनानां मायाविद्ययोश्च कल्पनाधिष्ठानं, स्वयंभूत्वा सदात्मना,

ब्रह्माण्डं चतुर्दशभुवनात्मकं पिण्डाण्डमपि स्वशरीरमपि, मलभाण्डवत्

मलपूर्णघटवत् त्यज्यतां नैव स्मर्यतामित्यर्थः "अधिष्ठानावशेषो हि नाशः

कल्पितवस्तुनः " इति प्रमाणात् । सदात्मना त्यागो नाम नास्तित्वापा-

दानमेव ॥२९
 
१६८
 
०॥
 
चिदात्मनि सदानन्दे देहारूढामहंधियम् ।
 

निवेश्य लिंगमुत्सृज्य केवलो भव सर्वदा ॥ २९१ ॥
 

 
चिदात्मनीति । देहारूढामहंधियं अहमितिमतितिं सदानन्दे चिदात्मनि

स्वयंप्रकाशनित्यानन्दस्वरूपे परमात्मनि निवेश्य आधाय, लिंगं सूक्ष्मशरीरं

उत्सृज्य तादात्म्येनानभिमत्य सर्वदा केवलो भव असंगो भव सजातीय-

विजातीय-स्वगतभेदरहितो वा भव । भेदस्याज्ञानिकत्वात् परमात्माहमिति

ज्ञाने तस्य नाशात् कैवल्यं सहजमभिव्यज्यत इति भावः ॥२९१ ॥
 

 
यत्रैषजगदाभासः दर्पणान्तः पुरं यथा ।
 

तद् ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २९२ ॥
 

 
यत्रेति । स्वच्छे अच्छिद्रे दर्पणे अन्तः यथा पुरं जनगिरिनदी

प्रासादादिरूपं पुरं प्रतिफलति अन्तरवर्तमानमपि दृश्यते तथा यत्र

ब्रह्मणि एष जगदाभासः मिथ्याभूतं जगत् भाति तद् ब्रह्माहमिति ज्ञात्वा

कृतकृत्यो भविष्यसि ॥२९२ ॥
 

 
यत्सत्यभूतं निजरूपमाद्यं चिदद्वयानन्द - मरूपमक्रियम् ।

तदेत्य मिथ्यावपुरुत्सृजैत-च्छेछैलूषवद्वेषमुपात्तमात्मनः ॥ २९३॥
 

 
यदिति । चित् अद्वयं च तत् आनन्दं च अद्वयानन्दं अरूपमत्क्रियं यदाद्यं

सत्यभूतं निजरूपं वास्तविकं तव स्वरूपं तदेत्यप्राप्य ज्ञानमेवात्र प्राप्तिः

कण्ठचामीकरवत्, एतत् मिथ्याभूतं वपुरुत्सृज त्यक्ताहंभावं कुरु ।

यथा शैलूषः नटः आत्मनः उपात्तं वेषं उत्सृजति तद्वत् ॥ २९३ ॥
 

 
पुनरात्मानं अहंपदार्थं शरीरादिभ्यो विवेचयति ज्ञानदाढ्यय ।

सर्वात्मनेति ।