This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
स्वप्राकाशमिति। स्वप्रकाशं चिद्रूपतया स्वतः सिद्धं, अधिष्ठानं
सर्वकल्पनानां मायाविद्ययोश्च कल्पनाधिष्ठानं, स्वयंभूत्वा सदात्मना,
ब्रह्माण्डं चतुर्दशभुवनात्मकं पिण्डाण्डमपि स्वशरीरमपि, मलभाण्डवत्
मलपूर्णघटवत् त्यज्यतां नैव स्मर्यतामित्यर्थः "अधिष्ठानावशेषो हि नाशः
कल्पितवस्तुनः " इति प्रमाणात् । सदात्मना त्यागो नाम नास्तित्वापा-
दानमेव ॥२९॥
 
१६८
 
चिदात्मनि सदानन्दे देहारूढामहंधियम् ।
 
निवेश्य लिंगमुत्सृज्य केवलो भव सर्वदा ॥ २९१ ॥
 
चिदात्मनीति । देहारूढामहंधियं अहमितिमति सदानन्दे चिदात्मनि
स्वयंप्रकाशनित्यानन्दस्वरूपे परमात्मनि निवेश्य आधाय, लिंगं सूक्ष्मशरीरं
उत्सृज्य तादात्म्येनानभिमत्य सर्वदा केवलो भव असंगो भव सजातीय-
विजातीय-स्वगतभेदरहितो वा भव । भेदस्याज्ञानिकत्वात् परमात्माहमिति
ज्ञाने तस्य नाशात् कैवल्यं सहजमभिव्यज्यत इति भावः ॥२९१ ॥
 
यत्रैषजगदाभासः दर्पणान्तः पुरं यथा ।
 
तद् ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २९२ ॥
 
यत्रेति । स्वच्छे अच्छिद्रे दर्पणे अन्तः यथा पुरं जनगिरिनदी
प्रासादादिरूपं पुरं प्रतिफलति अन्तरवर्तमानमपि दृश्यते तथा यत्र
ब्रह्मणि एष जगदाभासः मिथ्याभूतं जगत् भाति तद् ब्रह्माहमिति ज्ञात्वा
कृतकृत्यो भविष्यसि ॥२९२ ॥
 
यत्सत्यभूतं निजरूपमाद्यं चिदद्वयानन्द - मरूपमक्रियम् ।
तदेत्य मिथ्यावपुरुत्सृजैत-च्छेलूषवद्वेषमुपात्तमात्मनः ॥ २९३॥
 
यदिति । चित् अद्वयं च तत् आनन्दं च अद्वयानन्दं अरूपमत्रियं यदाद्यं
सत्यभूतं निजरूपं वास्तविकं तव स्वरूपं तदेत्यप्राप्य ज्ञानमेवात्र प्राप्तिः
कण्ठचामीकरवत् एतत् मिथ्याभूतं वपुरुत्सृज त्यक्ताहंभावं कुरु ।
यथा शैलूषः नटः आत्मनः उपात्तं वेषं उत्सृजति तद्वत् ॥ २९३ ॥
 
पुनरात्मानं अहंपदार्थं शरीरादिभ्यो विवेचयति ज्ञानदाढ्यय ।
सर्वात्मनेति ।