2023-02-20 14:42:58 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
१६७
"
अदत्वा आत्मानं परं स्वरूपं, आत्मनि बुद्धौ चितय । उक्तं हि दद्यान्ना-
वसरं किंचित्कामादीनांमनागपि " इति । यद्वा सर्वत्र षष्ठी निद्रायाः लोक-
वार्तायाः शब्दादेः विस्मृतेरपि क्वचिदप्यवसरमदत्वा चिन्तयात्मानमा-
त्मनीत्यर्थः । उक्तं हि मोक्षधर्मेषु " अप्राशन-मसंस्पर्श - मसंदर्शनमेव च।
पुरुषस्यैष नियमो मन्ये निश्रेयसं वरम्" इति ॥ २८७ ॥
66
यदभिमाननिबंधनाः सर्वे दोषाः तं स्थूलदेहं मा कदाचिदप्यात्मत्वेन
मंस्था इत्याह । मातापित्रोरिति ।
माता-पित्रोर्मलोद्भूतं मलमांसमयं वपुः ।
त्यक्त्वा चण्डालवद्वरं ब्रह्मीभूय कृतीभव ॥ २८८॥
मातापित्रोः मलोद्भूतं शुक्लशोणितजन्यं, मलमांसमयं हेतुतः
स्वभावतश्च बीभत्समित्यर्थ: । वपुः शरीरं चण्डालमिव दूरं त्यक्त्वा
तत्रात्मत्वाभिमानभकृत्वा ब्रह्मीभूय आज्ञानिकं अब्रह्मत्वं विधूय स्वयं
ब्रह्मेति विज्ञाय, कृती कृतकृत्यो भव । कृती धीमावा ॥२८८॥
,
त्यक्त्वा स्थूलाभिमानं तत्परिच्छेदात्परिच्छिन्नमिव भासमानं जीव-
मपि उपाधिप्रविलापनेन विलापयेत्याह । घटेति ।
घटाकाशं महाकाश इवात्मानं परात्मनि ।
विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥ २८९॥
महाकाश एव घटेनावच्छिद्यमानः घटाकाश उच्यते । एवं
बुध्यायपाधिना परात्मा जीव उच्यते । धिया घटस्य पृथक्करणे
घटाकाशो महाकाश एव । एवं उपाधीनां सर्वोपादान- सर्वकल्पनाधिष्ठान-
ब्रह्माव्यतिरिक्तत्व-ज्ञानेन स्वरूपतः निषेधे कृते अखण्डभावेन परिच्छेदा-
पादकस्याभावात् अपरिच्छिन्नाकारतया सदा मुने तूष्णीं भव कर्तव्यान्तरा-
भावात् । उक्तं हि गीतासु " एतद् बुध्वा बुद्धिमान्स्यात् कृतकृत्यश्च
भारत" इति ॥ २८९ ॥
स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना ।
ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ २९॥