This page has been fully proofread once and needs a second look.

१६६
 
श्रीविवेकचूडामणिः सव्याख्यः
 
परमात्मनि एका अनन्यतया या निष्ठा नितरां स्थितिः तस्मिन् एकस्मिन्

निष्ठा वा तया स्वाध्यासापनयं कुरु ॥ २८३॥
 

 
तत्वमस्यादिवाक्योत्थ-ब्रह्मात्मैकत्वबोधतः ।
 

ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥ २८४॥

 
तत्वमसीति । तत्वमस्यादिवाक्येभ्यः उत्थः जातः, यः ब्रह्मात्मनोः

एकत्वस्यबोधः ततः तद्द्लेन, ब्रह्मण्यात्मत्वदार्ढ्याय दार्ढ्यं च देहात्म-

ज्ञानवत् ब्रह्मात्मत्वज्ञानं तस्मै स्वाध्यासापनयं कुरु अनात्मभ्रान्तौ

महावाक्येभ्यः बोधस्यैवाजननात् ॥२८४॥
 

 
कियत्कालं भ्रान्तिनिरासप्रयत्नः करणीय इति चेदाह । अहमिति ।
 

 
अहंभावस्य देहेस्मिन् निश्शेषविलयावधि ।

सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥२८५॥
 

 
अस्मिन् स्थूलदेहे अहंभावस्य निश्शेषविलयावधि वासनया सह

नाशपर्यन्तं, सावधानेन युक्तात्मा अप्रमत्तान्तःकरण: सन् स्वाध्यासापनयं

कुरु ॥२८५ ॥ एवं
 

 
प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता ।
 

तावन्निरंतरं विद्वन् स्वाध्यासापनयं कुरु ॥ २८६॥
 

 
यावतेति । यावता कालेन जीवस्य जगतश्च प्रतीतिः प्रबुद्धस्य

स्वप्नवत् निश्चितमिथ्यात्वकं भाति तावत्कालपर्यन्तं निरंतरं विद्वन्

स्वाध्यासापनयं कुरु ॥ २८६॥
 

 
एवं नवभिः श्लोकैः अनात्मभ्रान्त्यपनयमुपदिश्य आत्मनाशहेतोः

विस्मृते: किंचिदप्यवकाशो न देय इति विस्मृतिहेतु- विशदनेन उपदिशति ।

निद्राया इति ।
 

 
निद्राया लोकवार्तायाश्शब्दादेरपि विस्मृतेः ।
 

क्वचिन्नावसरं दत्वा चिन्तयात्मानमात्मनि ॥२८७ ॥
 

 
निद्रायाः पंचमी, एवं लोकवार्तायाः शब्दादेरपि विषयात् प्रसज्यमाना

या विस्मृतिः आत्मविस्मरणं तस्याः, क्वचित् कदाचिदपि अवसरमदकाशं