This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
श्लोकै: समासव्यासाभ्यां सूचितविवेक-वैराग्य - शमादिषट्क-मुमुक्षुत्वरूप-
साधन- चतुष्टय - संपन्न इत्यर्थ: । आत्मविद्यायामधिकारी आत्मविद्याफलं
मोक्षं अनुभवितुमर्हतीत्यर्थः ॥१६॥
 
विवेकिनो विरक्तस्य शमादिगुणशालिनः ।
 
मुमुक्षोरेवहि ब्रह्मजिज्ञासा-योग्यता मता ॥ १७॥
 
१३
 
उक्तानि लक्षणानि स्फुटप्रतिपत्तये क्रोडीकृत्याह विवेकिन
इति । यद्वा उक्तं लक्षणं जिज्ञासुत्वं "अतोविचार: कर्तव्यो जिज्ञासोरात्म-
वस्तुनः" इत्यत्र जिज्ञासुरेव मेधावित्वादि-विशेषणविशिष्टः आत्मविद्या-
फलभाक् इदानीं जिज्ञासायां कस्याधिकार इति चेत् पूर्वं अष्टमश्लोके
विद्वान् संन्यस्तबाह्यार्थ- सुखस्पृहस्सन् उपदिष्टार्थ-समीहितात्मा इति दशम-
श्लोके धीरैः इतिशब्दसूचितस्य साधनचतुष्टय संपत्तिविशिष्टस्य इत्याह ।
विवेकिन इति । विवेकादिस्वरूपं स्पष्टयिष्यते मूल एवोपरिष्टात् ।
ज्ञातुमिच्छा जिज्ञासा, ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा तत्रावगति-पर्यन्तं
ज्ञानं सन्वाच्याया इच्छाया: कर्म । अखण्डकारवृत्ति प्रतिफलितं चैतन्यं
जिज्ञासापद-लक्ष्यमाण-विचारस्य फलम् । सामान्यतो ब्रह्मज्ञानस्य
 
विचारात्पूर्वमपि सत्वात् एतादृशमिष्टं संपादनीयं चेत् "दद्यान्नावसरं
किंचित् कामादीनां मनागपि । आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया "
इत्युक्तरीत्या सार्वदिक- वेदान्तविचार आवश्यकः । " देहात्मज्ञानवज्ज्ञानं
देहात्मज्ञानबाधकं । आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते " इत्युक्त-
ज्ञानं जनयितुं स एव समर्थ ॥१७॥ एतादृश - विचारजननी या इच्छा तत्र
योग्यता विवेकादि-साधनयुतस्यैव नान्यस्येत्येवकारबोधितमर्थं अन्वयेन
व्यतिरेकेण च स्पष्टयति । साधनानीति ।
 
साधनान्यत्र चत्वारि कथितानि मनीषिभिः ।
 
येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्ध्यति ॥ १८॥
लोके यस्य तावत् कार्यत्वेनाभिमत-समानाधिकरणा-त्यन्ताभाव-
प्रतियोगित्वं स्वसमानाधिकरणात्यन्ताभाव-प्रतियोगि-कार्यत्वाभिमत-कत्वं
वा तस्य तत्कारणत्वं न संभवति । यथा पटसमानाधिकरणात्यन्ता-
भावप्रतियोगिनी मृत्, मृत्समानाधिकरणात्यन्ताभाव-प्रतियोगिपटवती वा