This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१६५
 
प्रारब्धं कर्म वपुः शरीरं पुष्यति रक्षतीति निश्चित्य निश्चल:

निर्कारचित्तः धैर्यं विकारचित्तः धैर्यं विकारहेतावपि अविकृतचित्तत्वं अवलंब्य यत्नेन

स्वाध्यासापनयं कुरु ॥ २८० ॥
 

 
तत्प्रकारं विशदयति । नाहमिति ।
 

 
नाहं जीवः परंब्रह्मेत्यतद्व्यावृत्ति-पूर्वकम् ।

वासनावेगतः प्राप्त स्वाध्यासापनयं कुरु ॥ २८१ ॥
 

 
"
 

 
नाहं जीवः किंतु परं ब्रह्म इति न तत् अतत् ब्रह्मभिन्नं तस्य सर्वस्य

बुद्धिमनःप्राणशरीरादेः व्यावृत्तिपूर्वकं "नाहं देहो नेन्द्रियाण्यंतरंगं नाहंकारः

प्राणवर्गो न बुद्धिः । दारापत्यक्षेत्र - वित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा

शिवोहं " इति निषेधपुरस्सरं वासनावेगतः पूर्वं प्राप्ताः ये स्वाध्यासा:

तेषां अपनयं कुरु ।
यहा

यद्वा
वासनापदेन अनादिकालप्रवृत्तानात्मवासनाः

ग्राह्याः तासां वेगतः प्राप्तस्वाध्यासानां अपनयं अतद्व्यावृत्तिपूर्वकं अहं

परं ब्रह्मेति निरंतरानुसंधानेन कुरु इति योजनीयम् ॥ २८१॥
 

 
श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ।

क्वचिदाभासतः प्राप्त -स्वाध्यासापनयं कुरु ॥ २८२ ॥
 

 
"
 
आत्मैवेदं सर्वं " इत्यादिश्रुत्या, यस्य स्फुरणं विना यन्न स्फुरति

तत्ततो नातिरिच्यते यथा मृदो घट: दुंदुभि शंख - वीणाशब्द-सामान्यविशेषा

वा इति श्रुत्यनुसारिण्या युक्त्या " तमेव भान्तमनुभाति सर्वं तस्य भासा

सर्वमिदं विभाति " इति श्रुतेः, सर्वस्य आत्मभानभास्यत्वात् न तदति-

रिक्तत्वं सकलकल्पनाधिष्ठानत्वाच्च "नाधिष्ठानाद् भिन्नतारोपितस्य "

इत्यादियुक्त्या, तदनुसारिण्या स्वानुभूत्या आत्मनः सार्वात्म्यं ज्ञात्वा

कल्पितानां सर्वेषां वास्तवस्वरूपतां विदित्वा क्वचित्कोशादौ आभासतः

चैतन्यप्रतिफलनमात्रात् प्राप्त-स्वाध्यासापनयं कुरु अहंतां नाशय ॥ २८२ ॥
 

 
अन्नादानविसर्गाभ्यां ईषन्नास्ति क्रिया मुनेः ।
 

तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥ २८३ ॥
 

 
अन्नादानेति । मुनेः सततं परमात्ममननशीलस्य अन्नादान

विसर्गाभ्यां अन्या क्रिया ईषदपि नास्ति, अतः नित्यं तदेकनिष्ठया तस्मिन्