2023-02-20 14:42:58 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
१६५
प्रारब्धं कर्म वपुः शरीरं पुष्यति रक्षतीति निश्चित्य निश्चल:
निविकारचित्तः धैर्यं विकारहेतावपि अविकृतचित्तत्वं अवलंब्य यत्नेन
स्वाध्यासापनयं कुरु ॥ २८० ॥
तत्प्रकारं विशदयति । नाहमिति ।
नाहं जीवः परंब्रह्मेत्यतद्व्यावृत्ति-पूर्वकम् ।
वासनावेगतः प्राप्त स्वाध्यासापनयं कुरु ॥ २८१ ॥
"
नाहं जीवः किंतु परं ब्रह्म इति न तत् अतत् ब्रह्मभिन्नं तस्य सर्वस्य
बुद्धिमनःप्राणशरीरादेः व्यावृत्तिपूर्वकं "नाहं देहो नेन्द्रियाण्यंतरंगं नाहंकारः
प्राणवर्गो न बुद्धिः । दारापत्यक्षेत्र - वित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा
शिवोहं " इति निषेधपुरस्सरं वासनावेगतः पूर्व प्राप्ताः ये स्वाध्यासा:
तेषां अपनयं कुरु ।
यहा वासनापदेन अनादिकालप्रवृत्तानात्मवासनाः
ग्राह्याः तासां वेगतः प्राप्तस्वाध्यासानां अपनयं अतद्व्यावृत्तिपूर्वकं अहं
परं ब्रह्मेति निरंतरानुसंधानेन कुरु इति योजनीयम् ॥ २८१॥
श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ।
क्वचिदाभासतः प्राप्त स्वाध्यासापनयं कुरु ॥ २८२ ॥
"
आत्मैवेदं सर्वं " इत्यादिश्रुत्या, यस्य स्फुरणं विना यन्न स्फुरति
तत्ततो नातिरिच्यते यथा मृदो घट: दुंदुभि शंख - वीणाशब्द-सामान्यविशेषा
वा इति श्रुत्यनुसारिण्या युक्त्या " तमेव भान्तमनुभाति सर्वं तस्य भासा
सर्वमिदं विभाति " इति श्रुतेः, सर्वस्य आत्मभानभास्यत्वात् न तदति-
रिक्तत्वं सकलकल्पनाधिष्ठानत्वाच्च "नाधिष्ठानाद् भिन्नतारोपितस्य "
इत्यादियुक्त्या, तदनुसारिण्या स्वानुभूत्या आत्मनः सार्वात्म्यं ज्ञात्वा
कल्पितानां सर्वेषां वास्तवस्वरूपतां विदित्वा क्वचित्कोशादौ आभासतः
चैतन्यप्रतिफलनमात्रात् प्राप्त-स्वाध्यासापनयं कुरु अहंतां नाशय ॥ २८२ ॥
अन्नादानविसर्गाभ्यां ईषन्नास्ति क्रिया मुनेः ।
तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥ २८३ ॥
अन्नादानेति । मुनेः सततं परमात्ममननशीलस्य अन्नादान
विसर्गाभ्यां अन्या क्रिया ईषदपि नास्ति, अतः नित्यं तदेकनिष्ठया तस्मिन्