2023-02-20 14:42:58 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
कार्यनाशनद्वारा कारणं क्षपणीयं इति वासनाकार्य भ्रान्तिनाशं
वासनाक्षये कारणमाह नवभिः श्लोकैः । स्वात्मन्येवेत्यादिभिः ।
१६४
स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥ २७८॥
योगिनः चित्तस्य राजसी: तामसीश्च वृत्ती: निरुन्धतः सत्वोत्कर्षेण
स्वात्मन्येव ब्रह्मण्येव सदा स्थित्या निदिध्यासनेनेत्यर्थः । मनो नश्यति
प्रदीपज्वाला संतानवत् वृत्तिसंतानरूपेण परिणाममानं अन्तःकरणं स्ववेगं
त्यक्त्वा निरुद्धं भवति । ततः ब्रह्मसामीप्यबलेन शान्तिदान्तिरूप- शुद्ध-
वासनायां दृढायां भवन्त्यां बाह्यनिमित्ते सत्यपि क्रोधाद्यनुत्पत्तिः वासनानां
क्षयः, पूर्वापरपरामर्शमन्तरेण सहसा उत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य
हेतोः चित्तगतसंस्कार विशेषस्यैव वासनाशब्दार्थत्वात् । अतः स्वाध्या-
सापनयं कुरु विपरीतभावनाः निवर्तय । पंचसु कोशेषु सम्यग्विचार्य आत्म-
बुद्धि परित्यज ॥२७८।
राजसतामस-वृत्तिनिरोधरूप-योग एव कथमिति चेदाह ।
इति ।
तमो द्वाभ्यां रजः सत्वात् सत्वं शुद्धेन नश्यति ।
तस्मात्सत्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥२७९॥
द्वाभ्यां रजस्सत्वाभ्यां तमः नश्यति । प्रसिद्धं हि व्यायामादिना
काव्यशास्त्र - विनोदादिना वा आलस्यनिद्रादि- तामसधर्मान् नाशयंतीति ।
रजः सत्वात् चित्तैकाग्रयरूपसत्वकार्येण कर्मणि प्रवृत्तीश्च त्यजन्तीति
रजः सत्वान्नश्यति । तदपि सत्वं शुद्धेन निर्गुणेन नश्यति । निर्गुणप्राप्तौ
सत्ववृत्ते: ज्ञानस्यापि नाशात् । तस्मात्सत्वमवष्टम्य अवलंब्य तम:-
कृतावरणकालिक-रजः कृतविक्षेप रूपाणां स्वाध्यासानां भ्रमाणां अपनयं
नाशं कुरु ॥ २७९ ॥
चेदाह
तम
ज्ञानसाधनत्वात् शरीरस्य तद्रक्षायै तदभिमान आवश्यकः इति
। प्रारब्धमिति ।
प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः ।
धैर्यमालंब्य यत्नेन स्वाध्यासापनयं कुरु ॥ २८० ॥