This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
" तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण: " इतिश्रुत्या "ब्रह्मात्मनोः

शोधितयोः एकभावावगाहिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति

कथ्यते " इति वक्ष्यमाणया, यदतिसंघर्षणं मनसः कोशासंपर्केण स्थाप
नं
तत: विशुद्धा अनात्मवासनाऽसंपृक्ता चंदनगंधवत् स्फुटा प्रतीयते इति

दार्ष्टान्तिकम् ॥२७५॥
 
१६३.
 

 
उक्तमर्थं संगृहाति । अनात्मेति ।
 

 
अनात्मवासनाजालैः तिरोभूतात्मवासना ।

नित्यात्मनिष्ठया तेषां नाशे भाति स्वयंस्फुटा ॥२७६॥
 

 
अनात्मविषयिण्यः या वासना: लोकदेहशास्त्रवासना: "दंभो

दर्पोभिमानश्च क्रोधः पारुष्यमेव च " इत्यादिना आसुरसंपत्त्वेन दर्श्यमान-

मानसवासनाश्च तासां जालैः समूहै: आत्मवासना तिरोभूता न्यक्कृता ।

तेषां अनात्मवासनाजालानां नित्या या आत्मनिष्ठा ब्रह्मणि परिसमाप्तिः

तया नाशे स्वयं स्फुटा विविक्ता भाति ॥ २७६॥
 

 
"अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसंक्रामति" इत्यादिश्रुत्या

"
शनैः शनैरुपरमेद् बुध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचदपि

चिन्तयेत्" इतिस्मॄमृत्या च कथितमर्थं वासनाक्षयोपायं आह । यथायथेति ।

 
यथा यथा प्रत्यगवस्थितं मनः
 

तथा तथा मुंचति बाह्यवासनाः ।

निश्शेषमोक्षे सति वासनानां
 

आत्मानुभूतिः प्रतिबन्धशून्या ॥२७७॥
 

 
यथा यथा प्रत्यक् अंत: मनः अवस्थितं अभ्यासवैराग्याभ्यां तथा

तथा बाह्यवासनाः पुत्रादिषु ममतां अन्नमयादौ अहंतां च मंमुंचति ।

वासनानां निश्शेषमोक्षे निर्विकल्पकसमाधिनैरंतर्येण वेदान्तार्थ- विचार -

पुरस्सरं क्रियमाणेन " रसोप्यस्य परं दृष्ट्वा निवर्तते " इतिस्मृत्य़ाया निश्शेषं

यथा सूक्ष्मात्मनापि न स्यात् तथा मूलाज्ञानेन आश्रयेण सह मोक्षे अत्यन्तं

निवृत्तौ आत्मानुभूतिः प्रतिबन्धशून्या निरर्गला ॥ २७७ ॥