2023-02-28 11:10:38 by Vasant
This page has been fully proofread once and needs a second look.
रेताभिः वासनाभिः ज्ञानं यथावन्नैव जायते ॥ २७२ ॥
एतत्त्रयमेव सम्यज्ज्ञानप्रतिबंध
कृत्य संसारेति ।
संसारकारागृह-मोक्षमिच्छोः
अयोमयं पादनिबद्ध-शृंखलम् ।
वदंति तज्ज्ञाः पटुवासनात्रयं
योस्माद्विमुक्तः समुपैति मुक्तिम् ॥ २७३ ॥
तज्ज्ञा: ब्रह्मविदः, पटुवासनात्रयं तानवमयातं लोकशास्त्रदेह-
वासनात्रयं संसार एव कारागृहं तस्मान्मोक्षं इच्छोः पुरुषस्य, अयोमयं
बहुदृढं पादनिबद्धशृंखलं पादयोः निबद्धं शृंखलमितिरूपकं, यथा
आयसशृंखला
विष्णोः परमं पदं नैव प्राप्तुं शक्नोतीत्यभिप्राय: । यो नरः अस्मात्
पूर्वोक्तवासनात्रयात् विमुक्तः तनूकृतवासनः स मुक्
वज्ज्ञानेनेति शेषः ॥ २७३॥
तत्र प्रतिबंधकवासनापनयने सदृष्टान्तं आत्मवासना-समेधनं कारण-
माह । जलादीत्यादिना ।
जलादिसंपर्क-वशात् प्रभूतदुर्गन्ध-धूतागरु-दिव्यवासना ।
संघर्षणेनैव विभाति सम्यक् विधूयमाने सति बाह्यगंधे ॥२७४ ॥
अगरो: जलादिसंपर्कवशात् प्रभूतः बहुलः यः दुर्गन्ध: तेन धूतागरु-
दिव्यवासना सौरभ्यं, संघर्षणेन बाह्यगंधे वि
तिरस्क्रियमाण एव सम्यग्विभाति इतिदृष्टान्तः॥२७४॥
अंतश्श्रि
प्रज्ञातिसंघर्षणतो विशुद्धा प्रतीयते चन्दनगंधवत्स्फुटा ॥२७५॥
अंतरिता या अनन्ता बहुविधा दुरन्ता दुष्फलदा वासना अनात्म-
वासना सैव धूली तया विशेषेण लिप्ता अभिभूता परमात्मवासना, प्रज्ञया