This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
तत्प्रकारमुपदिशति । ज्ञात्वेति ।
 

 
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् ।

सोहमित्येव सद्वृत्याऽनात्मन्यात्ममतितिं जहि ॥ २७०॥
 

 
स्वं बुद्धितवृत्तिसाक्षिणं प्रत्यगात्मानं ज्ञात्वा सोहमित्येव <error>सद्वृत्या
</erro> <fix>सद्वृत्त्या</fix>
कालत्रयेपि बाधायोग्यवस्त्वभेदज्ञानेन अनात्मनि बुद्ध्यादौ आत्ममति
तिं
अहंतां जहि नाशय ॥ २७० ॥
 

 
भ्रान्तिपरंपराहेतुत्याजनेन भ्रान्तितिं त्याजयति । लोकेति ।
 

 
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।

शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ २७१॥
 
१६१
 
"
 

 
उक्तं हि साधनपंचके " जनकृपानष्ठुर्यमुत्सृज्यताम् " इति "देहेहं

मतिरुज्झ्यताम् " इति च । शास्त्रानुवर्तनं नाम मोक्षप्रयोजक-ग्रन्थपरिशीलनं

विना इतरग्रन्थाध्ययनादिकं, दृढतरं कर्माशु संत्यज्यता-मित्युपदेशानुसारेण

शास्त्रपदं कर्मशास्त्रपरं वा । तत्त्रयं त्यक्त्वा स्वाध्यासापनयं कुरु

अहंतां ममतां च नाशय ॥ २७१॥
 

 
तत्कुत इत्यत आह । लोकवासनयेति ।
 

 
लोकवासनया जन्तोः शास्त्रवासनयापि च ।

देहवासनया ज्ञानं यथावन्नैव जायते ॥ २७२॥
 
6
 

 
सर्वे जनाः यथा मां न निदन्ति यथा स्तुवन्ति तथैव सर्वदा चरिष्यामि

इत्यभिनिवेशः लोकवासना, इयं वासना अत्यन्तं प्रतिबंधिका तथा केनापि

स्थातुं अशक्यत्वात् । इदंतु जीवन्मुक्तिविवेके वासनाक्षयप्रकरणे विद्यारण्य-

गुरुचरण:णैः विस्तरेणोपपादितं " को लोकमाराधयितुं समर्थ: " " विद्यते

न खलु कश्चिदुपाय: सर्वलोकपरितोषकरो यः । सर्वथा स्वहितमाचरणीयं

किं करिष्यति जनो बहुजल्पः" इति । अत एव तुल्यनिंदास्तुतिः भगवद्-

भक्त इत्युक्तं गीतायां । शास्त्रवासना त्रिविधा पाठव्यसनं शास्त्रव्यसनं

अनुष्ठानव्यसनं चेति

भरद्वाज - दुर्वासो-दाशूरदृष्टान्तःतैः जीवन्मुक्ति-

विवेके सूपपादिता । एवं देहवासनापि आत्मत्वगुणाधान-दोषापनयन-