2023-02-20 14:42:57 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
तत्प्रकारमुपदिशति । ज्ञात्वेति ।
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् ।
सोहमित्येव सद्वृत्याऽनात्मन्यात्ममति जहि ॥ २७०॥
स्वं बुद्धितवृत्तिसाक्षिणं प्रत्यगात्मानं ज्ञात्वा सोहमित्येव सद्वृत्या
कालत्रयेपि बाधायोग्यवस्त्वभेदज्ञानेन अनात्मनि बुध्यादौ आत्ममति
अहंतां जहि नाशय ॥ २७० ॥
भ्रान्तिपरंपराहेतुत्याजनेन भ्रान्ति त्याजयति । लोकेति ।
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ २७१॥
१६१
"
उक्तं हि साधनपंचके " जनकृपानष्ठुर्यमुत्सृज्यताम् " इति "देहेहं
मतिरुज्झ्यताम् " इति च । शास्त्रानुवर्तनं नाम मोक्षप्रयोजक-ग्रन्थपरिशीलनं
विना इतरग्रन्थाध्ययनादिक, दृढतरं कर्माशु संत्यज्यता-मित्युपदेशानुसारेण
शास्त्रपदं कर्मशास्त्रपरं वा । तत्त्रयं त्यक्त्वा स्वाध्यासापनयं कुरु
अहंतां ममतां च नाशय ॥ २७१॥
तत्कुत इत्यत आह । लोकवासनयेति ।
लोकवासनया जन्तोः शास्त्रवासनयापि च ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥ २७२॥
6
सर्वे जनाः यथा मां न निदन्ति यथा स्तुवन्ति तथैव सर्वदा चरिष्यामि
इत्यभिनिवेशः लोकवासना, इयं वासना अत्यन्तं प्रतिबंधिका तथा केनापि
स्थातुं अशक्यत्वात् । इदंतु जीवन्मुक्तिविवेके वासनाक्षयप्रकरणे विद्यारण्य-
गुरुचरण: विस्तरेणोपपादितं " को लोकमाराधयितुं समर्थ: " " विद्यते
न खलु कश्चिदुपाय: सर्वलोकपरितोषकरो यः । सर्वथा स्वहितमाचरणीयं
किं करिष्यति जनो बहुजल्पः" इति । अत एव तुल्यनिंदास्तुतिः भगवद्-
भक्त इत्युक्तं गीतायां । शास्त्रवासना त्रिविधा पाठव्यसनं शास्त्रव्यसनं
अनुष्ठानव्यसनं चेति
भरद्वाज - दुर्वासो-दाशूरदृष्टान्तः जीवन्मुक्ति-
विवेके सूपपादिता । एवं देहवासनापि आत्मत्वगुणाधान-दोषापनयन-