This page has been fully proofread once and needs a second look.

१६०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा

कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः ।

प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्नात्
 

मुक्तितिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥२६८॥
 

 
वस्तुनि आत्मनि ज्ञातेपि पंचकोशविलक्षणतया ब्रह्माभिन्नतया च

शास्त्रतः युक्तितश्च ज्ञातेपि, या वासना अस्य संसारहेतुः कर्तृत्व-भोक्तृ-

त्वादिरूप - संसारकारणं अहं कर्ता भोक्तापीति दृढा दुरुच्छेद्या, अनादि
दिः
बहुकालादनुवृत्ता, एषा वासना बलवती, सम्यक्प्रबुद्धोपि स्वप्नेत्यन्तं भीतः

कंचित्कालं निराकुलितान्तःकरणो न भवतीति दृश्यते हि । अतः आत्मनि

ब्रह्मणि प्रत्यग्दृष्ट्या बहिर्मुखत्वं नितरां दूरीकृत्य अंतर्मुखतया निर्विकल्पक-

समाधिनेत्येतत्। अभेदज्ञानेन निवसता नितरां स्थितिमता सा प्रयत्ना-

दपनेया नाशनीया। यतः वासनातानवं स्वकार्यानाधायकत्वं अनुत्कटत्वं

यत् तदेव लोके शास्त्रे वा मुनयः शास्त्रार्थमननशीला: मुक्तितिं प्राहुः ।

अतः ब्रह्मात्मना संस्थितिः अप्रमादेन संस्थितिः मुक्तिरिति दृढतम-

साधनचतुष्टय - -संपत्तितिं विना जन्मांतरसुकृतवशात् ब्रह्मविदोपि वासनाक्षय-

मनोनाशार्थं प्रयत्नः निरंतर समाधिरूप: आवश्यक एवेत्युक्तं भवति
 
॥२६८॥
 

 
प्रतिबंधे सति प्रत्यग्दृष्ट्या आत्मनि निवासः न संभवतीति तत्प्रति-

बंधं तन्निरासोपायं च करुणानिधि - -र्भगवान् विस्तरेणोपदिशति । अहं

ममेत्यादिना ।
 

 
अहंममेति यो भावो देहाक्षादावनात्मनि ।
 

अध्यासोयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥ २६९ ॥
 

 
अनात्मनि देहाक्षादौ अक्षाणि इन्द्रियाणि, आदिपदेन प्राणमनो-

पादि, तत्र अहं मम इति यो भावः अहंता ममता इत्यर्थः । अयमध्यासः

विदु
षा श्रवणमननवता पुरुषश्रेष्ठेन स्वात्मनिष्ठया स्वात्मनि ब्रह्मणि

नित
रां स्थितिरूप - -निदिध्यासनेन निरस्तव्यः समूलघातं हन्तव्य इत्यर्थः
 
९॥