2023-02-28 09:42:59 by Vasant
This page has been fully proofread once and needs a second look.
भासकज्ञानमात्रं दृश्यसंबंधरहितं विज्ञाय विवेकेनानुभूय तदात्मनैव
ज्ञानात्मनैव सर्वदात्मनि स्थितः स्वरूपनिष्ठः, ब्रह्मणि दृश्यजातं विलापय
" पृथिव्याप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ । नभोप्यव्याकृते तच्च
शुद्धे शुद्धोस्म्यहं हरिः " इतिरीत्या तत्तदुपादेयानां स्वोपादानव्यतिरेकेण
असद्भावं विनिश्चित्य सर्वस्य सर्वोपादानभूत-ब्रह्मव्यतिरेकेणाभावं
निश्चिनुहि इत्यर्थः ॥२६६॥
बुद्धौ गुहायां सदसद्विलक्षणं
ब्रह्मास्ति सत्यं परमद्वितीयम् ।
तदात्मना योत्र वसेद्गुहायां
पुनर्न तस्यांगगुहा- प्रवेशः ॥२६७॥
सदसद्विलक्षणं सत्यं अद्वितीयं परं ब्रह्म गुहायां बुद्धौ अस्ति "योयं
विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः" इतिश्रुतेः "स वा एष आत्मा
हृदि " इति च, "प्रतिबोधविदितं दृश्यतेत्वग्र्यया <error>" बुध्या"<error><fix>बुद्ध्या</fix> सूक्ष्मया" इति
श्रुतेः बुद्धिं विना वेत्तुमशक्यत्वात् दर्पणमिव मुखस्य बुद्धिवृत्तिरेव आवरणं
भंक्त्वा ब्रह्म गृह्णातीति सर्वगतमपि बुद्धावस्तीति कथ्यते, सुषुप्तौ बुध्य-
भावेन दुर्ग्रहत्वात् स्वरूपस्य । सामीप्यसप्तमी पाषाणे वृक्ष इतिवत् ।
यद्यपि पंचापि कोशाः गुहापदेन कथ्यन्ते तथापि तत्र मनोमयादीनां
बुद्धिद्वारक संबन्धात् आनन्दमयकोशे बुद्धिं विना विवेक्तुमशक्यत्वात्
प्राधान्येन सत्वप्रधानबुद्धावेव स्थितिरित्युक्तमिति बोध्यम् । तदात्मना
ब्रह्मात्मना यः पुरुषः अत्र गुहायां स्थूलसूक्ष्मदेहात्मकगुहायां, वसेत् पुनः
तस्य अंगगुहाप्रवेश: अंगमेव गुहा, अंगेति शिष्यसंबोधनं वा, अत्र प्रवेशः
तादात्म्याभिमानः न विद्यते । "न स पुनरावर्तते " इतिश्रुतेः "आत्मानं
चेद्विजानीयात् अयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीर-
मनुसंज्वरेत्" इति च ॥ २६७॥
एतावता ग्रंथेन आत्मानात्मविवेचनं स्वनुभवः इत्येतत्प्रदर्शितं ग्रन्थ-
द्वितीयश्लोकोक्तं, ब्रह्मात्मना संस्थितिर्मुक्तिरितीममर्थं सूत्रितं विशदयितुं
उपक्रमते । ज्ञात इति ।