This page has been fully proofread once and needs a second look.

१५८
 
श्रीविवेकचूडामणिः सव्याख्यः
 
यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् ।

सत्यचित्सुखमनन्त-मव्ययं ब्रह्म तत्वमसि भावयात्मनि ॥२६४॥
 

 
" तदेतद् ब्रह्मापूर्व-मनपरं" इतिश्रुतेः अनपरं न विद्यते परं कार्यं

यस्य वस्तुभूतकार्यशून्यं, परात् हिरण्यगर्भादपि परं, यद्वा सर्वकार्यकारणात्

अज्ञानात् परं "अक्षरात्परतः परः" इतिश्रुतेः "स एतस्माज्जीवघनात्

परात्परं पुरिशयं पुरुषमीक्षते " इतिश्रुतेः, परशब्देन हिरण्यगर्भोपि ग्रहीतुं

शक्यते । प्रत्यगेकरसं जीवाभिन्नं सर्वान्तरं, "यच्चाप्नोति यदादत्ते यच्चात्ति

विषयानिह । यच्चास्य संततो भावः तस्मादात्मा प्रकीर्तितः " इत्युक्तात्म-

लक्षणोपेतं सत्यचित्सुखं अनन्तं अपरिच्छिन्नं अव्ययं नित्यं ब्रह्म तत्वमसि

भावयात्मनि ॥ २६४॥
 

 
उक्तमर्थमिम-मात्मनि स्वयं भावय प्रथितयुक्तिभिर्धिया ।

संशयादिरहितं करांबुवत् तेन तत्त्वनिगमो भविष्यति ॥ २६५ ॥
 

 
उक्तमिति । इमं ऐक्यरूपं उक्तमर्थं प्रथितयुक्तिभिः युक्तिषु

प्रथितत्वं श्रुत्यनुसारित्वं, धिया निर्मलान्तःकरणेन आत्मनि बुद्धौ स्वयं

भावय । तेन भावनेन करांबुवत् हस्तगतजलं यथा निस्संशयं स्पष्टं

गृह्यते एवं तत्वनिगमः तत्वनिर्णयः, संशयादिरहितं यथा तथा भविष्यति ।

रहितपदस्य राहित्यमर्थः । संशयादीति विपर्ययः आदिपदेन गृह्यते

असंभावना च । असंभावना-संशय-विपर्ययभावनानां राहित्यं यस्मिन्

कर्मणि तद्यथा भवति तथा इति भविष्यतीत्यत्र भवनक्रियाविशेषणम्

॥२६५॥
 

 
स्वं बोधमात्रं परिशुद्धतत्वं
 

विज्ञाय संघे नृपवच्च सैन्ये ।

तदात्मनैवात्मनि सर्वदा स्थितो
 

विलापय ब्रह्मणि दृश्यजातम् ॥ २६६ ॥
 

 
स्वमिति । सैन्ये बहुयोधघटिते सैन्ये छत्रादिचिह्नेन नृपमिव
संघे
शरीरेन्द्रियप्राणाहंकार-रूपकार्यकरणसंघाते, परिशुद्धतत्वं परिशुद्धं

तत्वं याथात्म्यं यस्य सः परिशुद्धतत्वः तं स्वं आत्मानं बोधमात्रं सर्वाव-
संघे