This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१५७
 
निरपेक्षमित्यर्थः । सकल-दृश्यनिषेधसाक्षित्वेन कारणान्तरस्य आकाशादेः

निरासे नेति नेतीति निषेधे कारणमिति वा, कार्यकारणविलक्षणं " तदेतद्

ब्रह्मापूर्व-मनपरं " इतिश्रुतेः कार्यं जगत् कारणं माया तद्विलक्षणं " उत्तमः

पुरुषस्त्वन्यः परमात्मेत्युदाहृतः " इतिगीतोक्तेश्च । यद्यप्येककारणं

इत्यस्मिन्नेव श्लोके कारणत्वमुक्तं तथापि तस्य मिथ्याकार्यनिरूपितत्वेन

मिथ्यात्वात् वस्तुतः कारणत्वं नास्तीत्यपि मन्तव्यम् जगज्जन्मादि-

कारणत्वस्य तटस्थलक्षणत्वात् । यावल्लक्ष्यकाल-मनवस्थितं यद्व्यावर्तकं

तदेव तटस्थलक्षणं। स्वयं स्वतः सिद्धं, ब्रह्म यत् तत्त्वमसि भावयात्मनि
 

॥२६१॥
 

 
निर्विकल्पक -मनल्पमक्षरं यत्क्षराक्षर-विलक्षणं परम् ।

नित्य-मव्ययसुखं निरंजनं ब्रह्म तत्वमसि भावयात्मनि ॥२६२ ॥
 
" (6
 
"
 

 
निर्विकल्पकं मायिकत्वात् विकल्पानां वस्तुतः विकल्पशून्यं, अनल्पं

"यो वै भूमा " "ज्यायानाकाशात् " इत्यादिश्रुतेः । अक्षरं न क्षरति

अश्नुते व्याप्नोतीति वा अक्षरं । यत्क्षराक्षरविलक्षणं "द्वाविमौ पुरुषौ

लोके क्षररचाक्षर एव च । क्षरस्सर्वाणि भूतानि कूटस्थोक्षर उच्यते "

इतिस्मृतेः । पूर्वं कार्यकारणविलक्षणं इत्युक्तं विवृतं पदान्तरेण, जगन्माया-

विलक्षणं सत्यमित्यर्थ: । अत एव परं सर्वोत्कृष्टं नित्यं अक्षरत्वान्नित्यं
 
"
 
"
 
46
 

"
नित्यो नित्यानां " इतिश्रुतेः । परं नित्यमिति वा अन्वयः। अव्ययसुखं

"
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति " इति श्रुतेः अखण्डसुखरूपं, निरंजनं

तमश्शून्यं यद् ब्रह्म तत्वमसि भावयात्मनि ॥ २६२॥
 
66
 

 
यद्विभाति सदनेकधा भ्रमान्नामरूप-गुणविक्रियात्मना ।

हेमवत्स्वय-मविऋिक्रियं सदा ब्रह्म तत्वमसि भावयात्मनि ॥२६३॥
 

 
यथा एकं हेम सुवर्णं कटक-कुण्डलाद्यनेकात्मना विभाति स्वयमेक-

रूपं कारकव्यापारमात्रेण एवं यत् सद् ब्रह्म स्वयं सदा अविक्रियं भ्रमात्

नामरूपगुणविक्रियात्मना अनेकधा विभाति तद् ब्रह्म तत्वमसि भाव-

यात्मनि ॥२६३॥