This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
१५७
 
निरपेक्षमित्यर्थः । सकल-दृश्यनिषेधसाक्षित्वेन कारणान्तरस्य आकाशादेः
निरासे नेति नेतीति निषेधे कारणमिति वा, कार्यकारणविलक्षणं " तदेतद्
ब्रह्मापूर्व-मनपरं " इतिश्रुतेः कार्यं जगत् कारणं माया तद्विलक्षणं " उत्तमः
पुरुषस्त्वन्यः परमात्मेत्युदाहृतः " इतिगीतोक्तेश्च । यद्यप्येककारणं
इत्यस्मिन्नेव श्लोके कारणत्वमुक्तं तथापि तस्य मिथ्याकार्यनिरूपितत्वेन
मिथ्यात्वात् वस्तुतः कारणत्वं नास्तीत्यपि मन्तव्यम् जगज्जन्मादि-
कारणत्वस्य तटस्थलक्षणत्वात् । यावलक्ष्यकाल-मनवस्थितं यद्व्यावर्तकं
तदेव तटस्थलक्षणं। स्वयं स्वतः सिद्धं, ब्रह्म यत् तत्त्वमसि भावयात्मनि
 
॥२६१॥
 
निर्विकल्पक मनल्पमक्षरं यत्क्षराक्षर-विलक्षणं परम् ।
नित्य-मव्ययसुखं निरंजनं ब्रह्म तत्वमसि भावयात्मनि ॥२६२ ॥
 
" (6
 
"
 
निर्विकल्पकं मायिकत्वात् विकल्पानां वस्तुतः विकल्पशून्यं, अनल्पं
"यो वै भूमा ज्यायानाकाशात् " इत्यादिश्रुतेः । अक्षरं न क्षरति
अश्नुते व्याप्नोतीति वा अक्षरं । यत्क्षराक्षरविलक्षणं "द्वाविमौ पुरुषौ
लोके क्षररचाक्षर एव च । क्षरस्सर्वाणि भूतानि कूटस्थोक्षर उच्यते "
इतिस्मृतेः । पूर्वं कार्यकारणविलक्षणं इत्युक्तं विवृतं पदान्तरेण, जगन्माया-
विलक्षणं सत्यमित्यर्थ: । अत एव परं सर्वोत्कृष्टं नित्यं अक्षरत्वान्नित्यं
 
"
 
"
 
46
 
नित्यो नित्यानां " इतिश्रुतेः । परं नित्यमिति वा अन्वयः। अव्ययसुखं
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति " इति श्रुतेः अखण्डसुखरूपं, निरंजनं
तमश्शून्यं यद् ब्रह्म तत्वमसि भावयात्मनि ॥ २६२॥
 
66
 
यद्विभाति सदनेकधा भ्रमान्नामरूप-गुणविक्रियात्मना ।
हेमवत्स्वय-मविऋियं सदा ब्रह्म तत्वमसि भावयात्मनि ॥२६३॥
 
यथा एकं हेम सुवर्णं कटक-कुण्डलाद्यनेकात्मना विभाति स्वयमेक-
रूपं कारकव्यापारमात्रेण एवं यत् सद् ब्रह्म स्वयं सदा अविक्रियं भ्रमात्
नामरूपगुणविक्रियात्मना अनेकधा विभाति तद् ब्रह्म तत्वमसि भाव-
यात्मनि ॥२६३॥