2023-02-20 14:42:57 by ambuda-bot
This page has not been fully proofread.
१५६
श्रीविवेकचूडामणिः सव्याख्यः
असदृशं "न तत्समश्चाभ्यधिकश्च दृश्यते " इतिश्रुतेः ।
सर्वेश्वर" इत्यादिश्रुतेः सत्यकामः सत्यसंकल्प "
एतादृशं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५८॥
66
ऋद्धिमत् " एष
इत्यादिश्रुतेश्च ।
जन्मवृद्धि-परिणत्यपक्षय-व्याधिनाशनविहीन-मव्ययम् ।
विश्वसृष्ट्यवनघातकारणं ब्रह्म तत्वमसि भावयात्मनि ॥ २५९ ॥
जन्म उत्पत्तिः, तदनन्तरकालिकस्थितेरुपलक्षणं, वृद्धिः अवयोपचयः,
परिणतिः विपरिणाम: पाकादिना रूपान्तरोत्पत्तिः आम्रादिफलादिषु,
अपक्षयः अवयवापचयः, व्याधि: रोगः, नाशनं अन्त्यविकार: तैविहीनं
षड्भावविकारशून्यं इत्यर्थ: । अत एव अव्ययं न व्येतीत्यव्ययं स्वतो वा
परतो वा नाशरहितं नित्यं, विश्वसृष्ट्यवनचातकारणं " यतो वा इमानि
भूतानि जायंते, येन जातानि जीवंति, यत्प्रयन्त्यभिसंविशंति" "इदं सर्व-
मसृजत आकाशः परायणं आकाशं प्रत्यस्तं यन्ति " इत्यादि-
श्रुतिभ्यः सकलप्रपंच-सृष्टिस्थिति-संहारकारणं यद् ब्रह्म तत्वमसि भाव-
यात्मनि ॥ २५९ ॥
"
((
}} (6
अस्तभेद - मनपास्त - लक्षणं निस्तरंगजलराशि-निश्चलम् ।
नित्यमुक्त-मविभक्तमूर्ति यद् ब्रह्म तत्वमसि भावयात्मनि ॥२६०॥
71 (1
12
अस्तभेदं अस्तः गतः भेद: यस्मात् " एकमेवाद्वितीयं 'इदं सर्वं
यदयमात्मा इतिश्रुतेः, अनपास्तलक्षणं अनपास्तमत्यक्तं अनपाय
सार्वदिकमित्यर्थः लक्षणं सच्चिदानन्दस्वरूपं यस्य तत् । निर्गताः तरंगाः
यस्मात् सचासौ जलराशिश्च समुद्रः तद्वन्निश्चलं, नित्यमुक्तं कदापि
बन्धरहितं, अविभक्तमूर्ति सच्चिदानन्दस्वरूपत्वेपि तत्पदलक्ष्याखण्ड-
स्वरूपभेदाभावात् अविभक्ता भेदरहिता मूर्तिः स्वरूपं शरीरं यस्य तत्
अविभक्तमूर्ति निरवयमिति वा यद् ब्रह्म तत्वमसि भावयात्मनि ॥२६०॥
एकमेव सदनेककारणं कारणान्तरनिरासकारणम् ।
कार्यकारणविलक्षणं स्वयं ब्रह्म तत्वमसि भावयात्मनि ॥२६१॥
एकमेव सत् कल्पितानां अनेकेषां अधिष्ठानत्वेन कारणं, कारणांतर-
निरासकारणं "परास्य शक्तिविविधैव श्रूयते " इतिश्रुतेः स्वभिन्नकारण-