This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
"तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्" इत्यादिश्रुत्यनुसारेण शोकशब्दित -

बन्धनाशकं सम्यज्ज्ञानं सद्गुरूपदिष्टार्थ - -विचारमन्तरा न केनापि साधनां-

तरेणेति । श्लोके अस्यामित्यस्य सिद्धावित्यर्थः ॥१४॥
 
१२
 

 
अतो विचार: कर्तव्य: जिज्ञासोरात्मवस्तुनः ।

समासाद्य दयासिंधुं गुरुं ब्रह्मविदुत्तमम् ॥ १५॥
 

 
अतः सर्वानर्थनिवर्तकनिर्णयहेतुत्वात् जिज्ञासोः आत्मानं सम्यज्ज्ञातु-

मिच्छो: पुरुषस्य आत्मवस्तुनः विचार: कर्तव्यः । तत्र इतिकर्तव्यतामाह

दयासिंधुं स्वयं कृतार्थत्वेन स्वस्य प्रयोजनाभावस्सिद्ध एव, इतरेपि मा

दुःखमनुभूवन्नितिकरुणायाः समुद्रं, आधारमित्यर्थः, जलराशिरिव जलानां,

गुरुम्, "गुशब्दस्त्वंधकारस्स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधि-

त्वात् गुरुरित्यभिधीयते " इति गुरुगीतोक्तरीत्या स्वोपदेशेन अज्ञानाख्य-

हार्दान्धकारहारकमित्यर्थः । यथान्धकारः प्रपंचमावृत्य तज्ज्ञानप्रति-

बन्धको भवति एवमज्ञानं आत्मानमावृत्य तत्स्पष्टभान-प्रतिबन्धकं

भवतीत्यन्धकारत्वमज्ञानस्य, अत एव तमइत्यादिशब्दरभिलापश्श्रुतौ

"
तमोह्यासीत्, तमसा गूल्हम " इत्यादौ । एतद्विशेषणद्वयं यत्र सम्भवति

तमाह ब्रह्मविदुत्तममिति । ब्रह्म विदन्तीति ब्रह्मविदः तेषामुत्तमं स्थित-

प्रज्ञमित्यर्थः । अत्र श्रुतयः पूर्वमुदाहृताः । तत्समासादनं च '"तमाराध्य

गुरुं भक्त्या प्रह्नःवः प्रश्रयसेवनैः " इति वक्ष्यमाणरीत्या "तद्विद्धिप्रणिपातेन

परिप्रश्नेन सेवया " इति गीतोक्तरीत्या च तस्य स्वात्माभिमुखीकरणमिति ।

अतो विमुक्त्यै इत्यष्टमश्लोकस्य इयद्भिश्लोकै: विवृतिः कृता ॥ १५॥
 
(6
 
66
 

 
मेधावी पुरुषो विद्वान् ऊहापोहविचक्षणः ।

अधिकार्यात्मविद्यायां उक्तलक्षणलक्षितः ॥१६॥
 

 
अधिकारिणमाशास्ते फलसिद्धिर्विशेषत इत्युक्तमधिकारिणं प्रकृते

कथयति मेधावीत्यादिना । '"धीर्धारणावती मेधा " इति कोशात्

श्रुतार्थधारणक्षमबुद्धिमानुच्यते मेधाऽस्यास्तीति व्युत्पत्या मेधावीशब्देन ।

विद्वानितिअधीत-काव्यकोशव्याकरण: उच्यते । ऊहापोहविचक्षणः एतेन

तर्क-मीमांसा-संस्कृतबुद्धित्वं गम्यते । पदवाक्य-प्रमाणज्ञ इति यावत् ।

उक्तलक्षण-लक्षित इति अष्टमश्लोकादारभ्य पंचदशश्लोकमध्यपाति-