2023-02-20 14:42:33 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
"तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्" इत्यादिश्रुत्यनुसारेण शोकशब्दित -
बन्धनाशकं सम्यज्ज्ञानं सद्गुरूपदिष्टार्थ - विचारमन्तरा न केनापि साधनां-
तरेणेति । श्लोके अस्यामित्यस्य सिद्धावित्यर्थः ॥१४॥
१२
अतो विचार: कर्तव्य: जिज्ञासोरात्मवस्तुनः ।
समासाद्य दयासिंधुं गुरुं ब्रह्मविदुत्तमम् ॥ १५॥
अतः सर्वानर्थनिवर्तकनिर्णयहेतुत्वात् जिज्ञासोः आत्मानं सम्यज्ज्ञातु-
मिच्छो: पुरुषस्य आत्मवस्तुनः विचार: कर्तव्यः । तत्र इतिकर्तव्यतामाह
दयासिंधुं स्वयं कृतार्थत्वेन स्वस्य प्रयोजनाभावस्सिद्ध एव, इतरेपि मा
दुःखमनुभूवन्नितिकरुणायाः समुद्र, आधारमित्यर्थः, जलराशिरिव जलानां,
गुरुम्, "गुशब्दस्त्वंधकारस्स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधि-
त्वात् गुरुरित्यभिधीयते " इति गुरुगीतोक्तरीत्या स्वोपदेशेन अज्ञानाख्य-
हार्दान्धकारहारकमित्यर्थः । यथान्धकारः प्रपंचमावृत्य तज्ज्ञानप्रति-
बन्धको भवति एवमज्ञानं आत्मानमावृत्य तत्स्पष्टभान-प्रतिबन्धकं
भवतीत्यन्धकारत्वमज्ञानस्य, अत एव तमइत्यादिशब्दरभिलापश्रुतौ
तमोह्यासीत्, तमसा गूल्हम " इत्यादौ । एतद्विशेषणद्वयं यत्र सम्भवति
तमाह ब्रह्मविदुत्तममिति । ब्रह्म विदन्तीति ब्रह्मविदः तेषामुत्तमं स्थित-
प्रज्ञमित्यर्थः । अत्र श्रुतयः पूर्वमुदाहृताः । तत्समासादनं च 'तमाराध्य
गुरुं भक्त्या प्रह्नः प्रश्रयसेवनैः " इति वक्ष्यमाणरीत्या "तद्विद्धिप्रणिपातेन
परिप्रश्नेन सेवया " इति गीतोक्तरीत्या च तस्य स्वात्माभिमुखीकरणमिति ।
अतो विमुक्त्यै इत्यष्टमश्लोकस्य इयद्भिश्लोकै: विवृतिः कृता ॥ १५॥
(6
66
मेधावी पुरुषो विद्वान् ऊहापोहविचक्षणः ।
अधिकार्यात्मविद्यायां उक्तलक्षणलक्षितः ॥१६॥
अधिकारिणमाशास्ते फलसिद्धिविशेषत इत्युक्तमधिकारिणं प्रकृते
कथयति मेधावीत्यादिना । 'धीर्धारणावती मेधा " इति कोशात्
श्रुतार्थधारणक्षमबुद्धिमानुच्यते मेधाऽस्यास्तीति व्युत्पत्या मेधावीशब्देन ।
विद्वानितिअधीत-काव्यकोशव्याकरण: उच्यते । ऊहापोहविचक्षणः एतेन
तर्क-मीमांसा-संस्कृतबुद्धित्वं गम्यते । पदवाक्य-प्रमाणज्ञ इति यावत् ।
उक्तलक्षण-लक्षित इति अष्टमश्लोकादारभ्य पंचदशश्लोकमध्यपाति-