This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
यत्परं सकलवागगोचरं गोचरं विमलबोध-चक्षुषः ।

शुद्धचिद्धन- मनादि वस्तु यद् ब्रह्म तत्वमसि भावयात्मनि॥२५६॥
 
१५५
 
"
 

 
यदिति ।
यत्परं सर्वोत्कृष्टं, सकलवागगोचरं "यतो वाचो

निवर्तन्ते " इतिश्रुतेः उपनिषद्भिरपि लक्षणावृत्या प्रतिपाद्यमानत्वात् ।

विमलबोधरूपं यच्चक्षुः तस्य गोचरं "ज्ञानप्रसादेन विशुद्धसत्वः ततस्तु

तं पश्यते निष्कलं ध्यायमानः " इतिश्रुतेः । शुद्धा निविषया या चित् सैव

घनः मूर्तिः यस्य, यद्वा शुद्धं च तत् चिद्धनं निरुपहितज्ञानस्वरूपं, अनादि

वस्तु नित्यं यथार्थं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५६॥
 
"
 

 
षड्भिरूमिंर्मिभिरयोगि योगिहृद्भावितं न करणैविभावितम् ।

बुध्यवेद्यमनवद्य-भूति यद् ब्रह्म तत्वमसि भावयात्मनि ॥२५७॥
 

 
षड्भिरिति । क्षुत्पिपासे शोकमोही जरामृत्यू ऊर्मिवत् तरंगवत्

उपर्युपरि संभवन्तीति एते षडूर्मय इति कथ्यन्ते । तैः षडभिः ऊर्मिभिः

अयोगि योगरहितं संबन्धशून्यं, क्रमेण प्राणमनश्शरीराश्रितत्वात् तेषां ।

योगिहृद्भावितं विषयेभ्यो निरुद्धचित्ताः योगिनः तेषां हृदा मनसा भावितं

आदरेण ध्यातमित्यर्थः । न करणैविभावितं "न चक्षुषा गृह्यते नापि वाचा,

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा, न तत्र चक्षुर्गच्छति न

वाग्गच्छति " इत्यादिश्रुतिभ्यः । शब्दस्पर्शरूपादिरहितत्वात् बुध्यवेद्यं

सौक्ष्म्याग्रघर्यत्वहीनबुध्या वेत्तुमशक्यं, अनवद्य भूति अनवद्या भूतिः महिमा

यस्य निर्दोषैश्वर्यमित्यर्थः "वैषम्यनर्घृण्ये न सापेक्षत्वात् " इति सूत्रात्

"निरवद्यम्" इतिश्रुतेश्च । तादृशं यद् ब्रह्म तत्त्वमसि भावयात्मनि
 
(
 
॥२५७॥
 

 
 
भ्रान्तिकल्पित - जगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् ।

निष्कलं निरुपमान-मृद्धिमत् ब्रह्म तत्वमसि भावयात्मनि ॥२५८॥
 
22
 

 
पादोस्य सर्वा भूतानीतिश्रुतेः भ्रान्त्या कल्पिता या जगद्रूपा कला

अंश: तदाश्रयं अधिष्ठानं, "स भगवः कस्मिन् प्रतिष्ठित इति, स्वे

महिम्नि " इति श्रुतेः स्वमाश्रयः यस्य अनाधारं सत्यमित्यर्थः । सदसद्वि-

लक्षणं प्रत्यक्षपरोक्ष-पंचभूतविलक्षणं, निष्कलं निरवयवं, निरुपमानं