This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
यस्मादेवमिदं शरीरकरण-प्राणाहमाद्यप्यसत्
 
तस्मात् तत्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५४॥
 
((
 
'न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथ-
योगान् पथः सृजते " इतिश्रुत्या निद्रावशात् कल्पितः देशश्च कालश्च
विषयाश्च ज्ञाता च देशकालविषयज्ञातारः ते आदयः यस्य सर्वस्य स्वप्ने
भासमानवस्तुजातस्य शरीरकरणादेः तत्सर्वं, प्रबोधे अप्रतीयमानत्वात्
निद्रारूपदोषजन्यत्वात् दृष्टनष्टस्वरूपत्वाच्च यथा मिथ्या बाध्यं, तद्वदिह
जाग्रत्यपि जगत् मिथ्या । तत्र हेतुः स्वाज्ञानकार्यत्वतः, स्वस्य अज्ञानं स्वाज्ञानं
निष्प्रपंचस्वरूपावरकं मूलाज्ञानं तत्कार्यत्वात् । उक्तं हि " यदबोधादिदं
भाति यद्बोधाद्विनिवर्तते " इति । यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन
कं पश्येत्" इतिश्रुतेः " यदज्ञानप्रभावेन दृश्यते सकलं जगत्। यज्ज्ञाना-
ल्लयमाप्नोति तस्मै ज्ञानात्मने नमः " इति, "ज्ञाते द्वैतं न विद्यते " इति
माण्डूक्यकारिकायाश्च । यस्मादेवं जगत् मिथ्या, इदं शरीर-करण-
प्राणाहमाद्यपि त्वया पूर्वमात्मत्वेनाभिमतं शरीरेन्द्रियप्राणाहंकारादिकमपि
असत् बाध्यं मिथ्याभूतं । तस्मात् प्रशान्तममलं अद्वयं यत्परं ब्रह्म तदेवा-
सित्वम् इति पूर्ववत् ॥ २५४॥
 
66
 
१५४
 
शब्दानुविद्धतया ब्रह्मानुसंधानधारायै दशभिः श्लोकं ब्रह्मतत्वं
स्फुटयन् जीवब्रह्मैक्यं आविष्करोति । जातिनीतीति ।
जातिनीतिकुल-गोत्रदूरगं नामरूपगुणदोषवर्जितम् ।
देशकालविषयातिवति यत् ब्रह्म तत्वमसि भावयात्मनि ॥२५५॥
 
ब्राह्मण्यादिजातेः, औचित्येन स्थितिरूपनीतेः, कुलस्य वंशस्य,
गोत्रस्य च स्थूलसूक्ष्मशरीराश्रितत्वात् तेभ्यः दूरं गच्छतीति जातिनीति-
कुलगोत्र-दूरगं " यत्तदद्रेश्यमग्राह्य-मगोत्र-मवर्णं " इतिमुण्डकश्रुतेः । नाम-
रूपगुणदोषवर्जितं "आकाशो ह वै नाम नामरूपयोनिर्वहिता ते यदंतरा
तद्ब्रह्म ." "केवलो निर्गुणश्च " इतिश्रुतेः चकारान्निर्दोषश्च । देशकाल -
विषयान् अतीत्य वर्तत इति देशकालविषयातिवति आनन्त्यश्रुतेः परिच्छेद-
त्रयशून्यमित्यर्थः । ईदृशं यद् ब्रह्म तत्त्वमसि आत्मनि बुद्धौ ऐक्येन भावय
अनुसंधेहि ॥२५५॥