This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
स्वरूपं बोधयन्ति । तदाह एतत् दृश्यमानं असत् स्थूलं शरीरादि, अस्थूल-
मिति निरस्य निषिध्य, सकलनिषेधसाक्षित्वेन स्वतः सिद्धं, व्योमवत्
आकाशवदप्रतयं नह्याकाशस्य आयाम: एतावानिति तर्कयितुं शक्यते,
तथा शास्त्रमन्तरेण तर्कानधिगम्यमित्यर्थः । तादृशं ब्रह्म अहमित्येव
विशुद्धबुध्या मनननिदिध्यासन-संस्कृतबुध्या, स्वं आत्मानं अखण्डबोवं
विद्धि । अतः यत् स्वात्मतया गृहीतं स्थूलशरीरादिकं इदं प्रतीतमज्ञानात्
ज्ञातं मृषामात्रं मिथ्याभूतं जहीहि परित्यज इत्यन्वयः ॥२५२॥
 
छान्दोग्यषष्ठाध्याये श्वेतकेतुं प्रति उद्दालकेन कृतमुपदेशं शिष्य -
सुखबोधाय संगृह्योपदिशति । मृत्कार्यमिति ।
 
मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाभितः
 
तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् ।
यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं
तस्मात् तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५३॥
 
मृत्कार्यं मृदुपादानकं, घटादि घटशरावोदंचनादि सकलं, सततं
कालत्रयेपि उत्पत्तेः प्राक् उत्पत्यनन्तरं नाशानन्तरं च, अभितः सर्वशः प्रागूर्ध्वं
पश्चादधः पार्श्वयोः, मृन्मात्रमेव मृद्व्यतिरेकेण नास्ति विस्तरेणेदमुपपादित-
मधस्तात् " मृत्कार्यभूत" इत्यादिश्लोकाभ्यां । तद्वत् "सदेव सोम्येदमग्र
आसीत्, एकमेवाद्वितीयं, तदैक्षत, तत्तेजोऽसृजत, तदपोसृजत, तदन्नमसृजत"
इत्यादिना सन्मूला: सोम्येमाः सर्वाः प्रजा: सदायतनाः सत्प्रतिष्ठाः
इत्यन्तं श्रुत्या बोधितप्रकारेण सज्जनितं घटःसन् पटःसन् इति सामानाधि-
करण्यविषयकप्रतीत्याच सदात्मकमिदमखिलं सन्मात्रमेव । यस्मात् सतः
परब्रह्मणः परं भिन्नं किमपि नास्ति तत् सर्वोपादानभूतं, सत्यं कालत्रया-
बाध्यं, सः आत्मा तव मुख्यं स्वरूपं स्वयं सत्तास्फूर्त्योः परनिरपेक्षं,
तस्माद्धेतोः अद्वयं स्वसत्ताव्यतिरिक्त-सत्ताक-पदार्थशून्यं, प्रशान्तं निर्विकारं,
अमलं अज्ञानाद्यस्पृष्टं यत्परं ब्रह्म तदेव त्वमसि इत्यर्थः ॥ २५३ ॥
 
1
 
निद्रा - कल्पित - देशकाल - विषयज्ञात्रादि सर्वं यथा
 
मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञान-कार्यत्वतः ।
 
}}