This page has not been fully proofread.

१५२
 
श्री विवेकचूडामणिः सव्याख्यः
 
लक्षणया तत्त्वंपदार्थयोः संसर्गाविषयक- यथार्थ ज्ञानविषयत्वसिद्धये भाव्यम्
॥ २४९॥
 
तद्दृष्टान्तपुरस्सरमाह । स इति ।
 
तत्र
 
स देवदत्तोयमितीह चैकता विरुद्धधर्मांशमपास्य कथ्यते ।
यथा तथा तत्त्वमसीति वाक्ये विरुद्धधर्मानुभयत्र हित्वा ॥ २५० ॥
संलक्ष्य चिन्मात्रतया सदात्मनो: अखण्डभावः परिचीयते बुधैः ।
एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोरैक्य-मखण्डभावः ॥ २५१॥
सोयं देवदत्त इतीह तच्छब्दस्य तद्देशतत्काल वृत्तित्वविशिष्टोर्थः ।
अयमिति इदंपदस्य एतद्देशैतत्काल-वृत्तित्वविशिष्ट अर्थ: ।
विशेषणयोः अत्यन्तभिन्नत्वात् विशिष्टैक्यमनुपपन्नम् । कालांतरे देशान्तरे-
स्थितः देवदत्तः इदानीमत्रागतः इत्यप्यर्थस्य ज्ञातत्वात् व्यक्तिमात्र-
विषयक-बोधतात्पर्येणोच्चरितादस्माद् वाक्यात् स्वघटकतदिदंपदाभ्यां
उभयत्र विरुद्धांशं तद्देश तत्काल-तद्देशै तत्काल रूप अपास्य हित्वा
देवदत्तरूपविशेष्यांशमात्रमुपस्थाप्यते । तत्र भेदो नास्तीति एकता यथा
कथ्यते तथा तत्त्वमसिवाक्ये कारणोपाधि-कार्योपाधि-प्रत्यक्त्व-परोक्षत्व-
परिपूर्णत्व- सद्वितीयत्वादिरूपान् विरुद्धधर्मान् उभयत्र हित्वा चिन्मात्रतया
ईशजीवौ संलक्ष्य तयोः अखण्डभावः वस्तुपरिच्छेदशून्यत्वं बुधैः विद्भिः
परिचीयते अनुभूयत इत्यर्थः । एकत्र ऐक्यबोधप्रकारं उपदिश्य अन्यत्राति-
दिशति, एवं महावाक्यशतेन ब्रह्मात्मनोरैक्यं तदर्थः अखण्डभावः कथ्यत
इति ॥ २५१ ॥
 
विधिमुखेन जीवब्रह्मैक्यबोधकं वाक्यं उदाहृत्य निषेधमुखेन
तद्बोधकं वाक्यमुदाहरति । अस्थूलमिति ।
 
अस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् ।
अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् ।
ब्रह्माहमित्येव विशुद्धबुध्या विद्धि स्वमात्मानमखण्डवोधम् ॥२५२॥
अस्थूलमनण्वहस्व-मदीर्घम्" इत्यादिवाक्यानि स्थूलशरीरादि-
तादात्म्याभिमानेन तथा स्वात्मानं जानानं जीवं तद्रूपत्वं परिहाप्य ब्रह्म-
46