2023-02-27 16:58:38 by Vasant
This page has been fully proofread once and needs a second look.
ल्लक्षणा चेति । प्रकृते तु तृतीया ग्राह्या इत्याह । तयोरखण्डैकरसत्व-
सिद्धये संसर्गाविषयक-प्रमाविषयत्वसिद्धये इत्यर्थः । उक्तं हि वाक्यवृत्तौ
"संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः । अखण्डैकरसत्वेन
वाक्यार्थी विदुषां मतः" इति ।
तत्र जहल्लक्षणा नाम स्वात्मनिरूपणे
लक्षिता " निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे । जहतीति
लक्षणा स्यात् गंगायां घोषवदिह न ग्राह्या" इति । वाच्यार्थाविषयिणी
लक्ष्यार्थविषयिणी या उपस्थितिः तादृशोपस्थितिजनिका शक्यसंबन्धरूपा
या वृत्तिः पदपदार्थसंबन्धः सा जहल्लक्षणा । यथा "गंगायां घोष" इत्यत्र
घोषपदवाच्याभीरपल्याः गंगापदवाच्यप्रवाहवृत्तित्वं न संभवतीति
गंगापदस्य प्रवाहसंयुक्त-तीरबोधकत्वं । तत्रापि यदि गंगातीरे घोषइति
बोधोभिप्रेतः तदा अजहल्लक्षणैव । तीरेघोष इति चेत्, बोधे तज्जनकोप-
स्थितौ च वाच्यार्थस्याप्रवेशात् जहल्लक्षणा । प्रकृते नालं जहत्या इत्युक्तं
वाच्यैकदेशस्य विशेष्यस्य संग्रहात् "निखिलमपि वाच्यमर्थं त्यक्त्वा"
इत्युक्तलक्षणाभावात् । एवं न तथा अजहत्या अखण्डैकरसत्वसिद्धये अजहत्या
लक्षणयापि नालं न पर्याप्तं । तथाहि अजहल्लक्षणा नाम वाच्यार्थविषयिणी
लक्ष्यार्थविषयिणी च या उपस्थितिः तज्जनक-शक्यसंबन्धरूपा वृत्तिः ।
तदुक्तं "वाच्यार्थमत्यजन्त्या यस्यावृत्तेः प्रवृत्तिरन्यार्थे । इयमजहतीति
कथिता शोणो धावतिवदत्र न ग्राह्या " इति शोणशब्दस्य वाच्यस्य रक्त-
गुणस्य धावनकर्तृत्वान्वयासंभवात् तद्गुणविशिष्टे अश्वे लक्षणा । तत्र
शोणगुणविशिष्टाश्वविषयकोपस्थितौ वाच्यार्थस्य शोणगुणस्यापि भानात्
इयं लक्षणा अजहती वाच्यार्थं न त्यजतीति । प्रकृते विशेषणांशस्य
वाच्यार्थस्य परित्यज्यमानत्वात् नाजहल्लक्षणा किंतु उभयार्थैकतयैव
भाव्यं उभयोरर्थयोः एकता यया लक्षणया तया जहदजहल्लक्षणया भाव्यं
तयोरखण्डैकरसत्वसिद्धये। तल्लक्षणमुक्तम् । "जहदजहतीति सा स्यात् या
वाच्यार्थैकदेशमपहाय । बोधयति चैकदेशं सोयं द्विज इति वदाश्रयेदेनाम् " ।
सोयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक्परोक्षदेशाद्यं । द्विजमात्रलक्षकत्वात्
कथयत्यैक्यं पदार्थयोरुभ्योः । तद्वत्तत्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि ।
"चिद्वस्तु लक्षयित्वा बोधयतिस्पष्टमसिपदेनैक्यम्" इति तथाच किंचि
द्वाच्यार्थाविषयिणी किंचिद्वाच्यार्थविषयिणी च या उपस्थितिः तादृशोप-
स्थिति-जनक-शक्यसंबंधरूपा वृत्तिः जहदजहल्लक्षणा । प्रकृते तया