This page has not been fully proofread.

१५०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
इति गीतावचनात् । एवं कोशपंचकमपि निपुर्ण विचारयतो नैवास्ति
धीमता शिष्येण "सर्वाभावं विना किंचिन्न पश्यामि " इत्युक्तत्वात् । अतः
पूर्वोक्तोपाधिद्वयमपि रज्जौ दृष्टव्यालवत् सर्पवत् स्वप्नवच्च न सत्यम् ।
इत्थं दृश्यं साधुयुक्त्या श्रुत्यनुसारिण्या युक्त्या साधु व्यपोह्य निरस्य
पश्चात् तयोः अनुपहितयोः केवलयोः चिन्मात्रयोः यः एकभावः भेदाभावः
सः ज्ञेयः ॥ २४८॥
 
ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये ।
नालं जहत्या न तथाऽजहत्या किंतूभयार्थंकतयैव भाव्यम् ॥ २४९॥
 
"
 
तत इति । ततः यतः दृश्यव्यपोहानन्तरं शब्दादेव तयोः एकत्वं ज्ञेयं
ततः तस्मात्कारणात् तौ शुद्धौ, लक्षणया शक्यसंबन्धो लक्षणा तया अर्थ-
स्मृत्यनुकूलपदपदार्थसम्बन्धरूपया वृत्या सुलक्ष्यौ सम्यगुपस्थापनीयौ। अत्र
स्वात्मनिरूपणे " मानान्तरोपरोधात् मुख्यार्थस्यापरिग्रहे जाते । मुख्याविना-
कृतेर्थे या वृत्तिस्सैव लक्षणा प्रोक्ता " इत्युक्तम् । प्रमाणान्तरविरोधवशात्
मुख्यार्थस्य वाच्यार्थस्य अपरिग्रहे जाते वाच्यार्थविषयकान्वयबोधानुपपत्तौ
सत्यामिति यावत् मुख्याविनाकृते वाच्यसंबद्धेर्थे या वृत्तिः सा लक्षणा
इत्यर्थः । प्रकृते विशिष्टयोरैक्यं बाधितं इति तत्त्वंपदाभ्यां शुद्धौ आत्मानौ
लक्षणीयौ तत्र विशिष्टतादात्म्यसंबन्धस्य सत्वात् लक्षणा शक्यसंवन्धरूपा
निर्वहति । तदपि तत्र स्पष्टमुक्तं " देहेन्द्रियादिधर्मानात्मन्यारोपयन्न-
भेदेन । कर्तृत्वाद्यभिमानी बोधस्स्यात् त्वंपदस्य वाच्योर्थः । देहस्य
चेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन । प्रतिभाति योवबोधः प्रोक्तोसौ
त्वंपदस्य लक्ष्योर्थः । वेदावसानवाचा संवेद्यं सकलजगदुपादानं ।
सर्वज्ञताद्युपेतं चैतन्यं तत्पदस्य वाच्योर्थः । विविधोपाधिविमुक्तं विश्वा-
तीतं विशुद्धमद्वैतं । अक्षरमनुभववेद्यं चैतन्यं तत्पदस्य लक्ष्योर्थः इति ॥
प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्वं च सद्वितीयत्वं । इतरेतरं विरुद्धं ततइह
भवितव्यमेव लक्षणया " इति च ॥ त्वंपदार्थे प्रत्यक्त्वं तत्पदवाच्ये परोक्षत्वं
अहमिति प्रतीत्यभावात् एवमीश्वरस्य परिपूर्णत्वं जीवस्य सद्वितीयत्वं
अल्पत्वमिति यावत् । इतरेतरंविरुद्धं, कथं तयोरैक्यान्वयः इतिमानान्तरोप-
रोधे प्राप्ते उपक्रमादिलिंगावधूत तात्पर्यानुपपत्या शुद्धौ लक्षणया
बोधनीयौ । तत्र लक्षणा त्रिविधा, जहल्लक्षणा अजहल्लक्षणा जहजदह-
"C
 
"