This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१४९
 
सज्जते " इत्यादिश्रुतिभिः तत्वंपदार्थशोधिकाभिः तयोरुपाध्योः सम्यङ्-

निरासे, न परो न जीवः केवलचिन्मात्ररूपत्वात् भेदकाभावात् । तत्र

दृष्टान्तमाह नरेन्द्रस्य राज्यमुपाधि : खेटक: आयुध-विशेषः भटस्य उपाधिः

भेदकधर्मः। तयोरपोहे अभावे न भटो न राजा, स्पष्टम् ॥२४६॥
 

 
उपाधिनिरासः कथं करणीय इति चेदाह । अथेति ।

 
अथात आदेश इतिश्रुति-स्स्वयं
 

निषेधति ब्रह्मणि कल्पितं द्वयम् ।

श्रुतिप्रमाणानुगृहीत -युक्त्या
 

तयोर्निरासः करणीय इत्थम् ॥२४७॥
 

 
"
अथात आदेशो नेति नेति" इतिश्रुतिः स्वयं ब्रह्मणि कल्पितं

द्वयं द्वैतं वस्तु निषेधति । इति शब्दस्य इदमित्यर्थः । वीप्सा सकल-

दृश्यवर्गनिषेधार्था । इदमिदमिति यद्यत्प्रतीयते तत्सर्वमपि अधिष्ठान -

व्यतिरेकेण नास्ति स्वतः सत्तास्फूर्तिशून्यम् । एवं श्रुत्यैव साक्षान्निषिध्य-

मानत्वात् सकलप्रमाणमूर्धन्य-श्रुत्यनुगृहीतयुक्त्या तयोः मायाकोशपंचक-

रूपोपाध्योः । इत्थं वक्ष्यमाणरीत्या निरास: करणीयः ॥ २४७॥
 
(6
 

 
नेदं नेदं कल्पितत्वान्न सत्यं
 

रज्जौ दृष्टव्यालवत्स्वप्नवच्च ।

इत्थं दृश्यं साधुयुक्त्या व्यपोह्य
 

ज्ञेयः पश्चादेकभावस्तयोर्यः ॥२४८॥
 

 
नेदमिति । प्रथमेदंशब्देन ईशोपाधिर्माया, द्वितीयेदंपदेन कोशपंचकं

जीवोपाधिः ग्राह्यः प्रत्येकं निषेदुं नञ्द्वययोगः । कारणं वा माया, कार्
यं
वा कोशपंचकं कल्पितत्वात् न सत्यं "भूयश्चान्ते विश्वमायानिवृत्ति: "

इतिमायानाशश्रवणात् । कोशपंचकस्य दृष्टनष्टस्वरूपत्वमुपपादितमेव

अवस्थात्रयेनुवृत्यभावात् । '"मामेव ये प्रपंद्यन्ते मायामेतां तरंति ते'
"
इति गीतावचनाच्च । "तेध्यानयोगानुगता अपश्यन् देवात्मशक्ति
तिं
स्वगुणैनिगूढां " इति तस्या अपि दृश्यत्वश्रुतेः । अतः इदं कारणं माया-

रूपोपाधिः न वस्तुतोस्ति, सत्वे निवृत्ययोगात् "नाभावो विद्यते सतः
 
"(
 
१३
 
"