This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
ऐक्यं तयोर्लक्षितयो-र्न वाच्ययोः

निगद्यतेऽन्योन्यविरुद्धधर्मिणोः

खद्योतभान्वोरिव राजभृत्ययोः

कूपांबुराश्योः परमाणुमेर्वोः ॥ २४४॥
 

 

 
किंचिज्ज्ञत्व- सर्वज्ञत्वविषये दृष्टान्तः खद्योतभान्वोरिति अति-

परिच्छिन्नापरिच्छिन्नप्रकाशवत्वात् । नियम्यनियामकभावविषये राज-

भृत्ययोरिति दृष्टान्तः भीषास्मादित्यादिश्रुतेः । आनन्दलेशापारानन्द-

विषये कूपांबुराश्योरिति । एकदेशगतत्व-सर्वगतत्वविषये परमाणुमेर्वो-

रिति । एवं अन्योन्यविरुद्धौ ऐक्यायोग्यौ यो धर्मिणौ तयोः अन्योन्यविरुद्ध-

धर्मिणोः वाच्ययोः तयोः जीवेश्वरयोः ऐक्यं न निगद्यते बाधितत्वात् ।

किंतु लक्षितयोः लक्षणावृत्या बोधितयोः निगद्यते उपक्रमादिलिंगावगत-

तात्पर्यानुसारेण कथ्यत इत्यर्थः ॥२४४॥

 
अन्योन्यविरोधे कारणमाह । तयोरिति ।
तयो

 
तयोर्
विरोधोय-मुपाधिकल्पितो

न वास्तवः कश्चिदुपाधिरेषः ।

ईशस्य माया महदादिकारणं
 

जीवस्य कार्यं शृणु पंच कोशाः ॥२४५॥
 
१४८
 

 
तयोर्वाच्ययोः अयं विरोध: ऐक्यायोग्यत्वरूपः उपाधिना कल्पितः ।

न वास्तवः स्वाभाविकः कश्चित् । क उपाधिरिति चेदाह उपाधिरेष इति ।

तत्र तत्पदार्थस्य उपाधिमाह ईशस्य माया । तत्स्वरूपमाह महदादि-

कारणं महतत्वाहंकार-पंचतन्मात्रादिसकलजगत्कारणं माया ईश्वरस्य

उपाधिः । जीवस्य त्वंपदार्थस्य कार्यमुपाधिः । किं तदिति चेत् शृणु पंच

कोशाः । "कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः" इति श्रुतेः ॥ २४५ ॥

 
एतावुपाधी परजीवयोस्तयोः

सम्यङ्निरासे न परो न जीवः ।

राज्यं नरेन्द्रस्य भटस्य खेटक:
 
46
 

तयोरपोहे न भटो न राजा ॥२४६॥

 
जीवपरयोः एतावुपाधी माया
पंचकोशाश्च ।
"नात्र काचन भिदास्ति" " नेह नानास्ति किंचन" "असंगोह्ययं पुरुषः
 
जीवपरयोः एताबुपाधी माया
 
"
 
"66
 
भिदास्ति' नेह नानास्ति किंचन
 
"(
 
नात्र काचन
 
'
असंगो नहि