This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१४७
 
"
 
अतः जगतः पृथक्सत्ताशून्यत्वात् आरोपिततया नाममात्रत्वात् परं

ब्रह्म अबाध्यं विजातीयरहितं निर्विषय -विज्ञानशरीरं अज्ञानास्पृष्टं

अपरिणामि जन्मनाशरहितं अमूर्तं अखण्डानन्दविग्रहं निरस्ताः माया-

कृताः सर्वभेदाः यस्मात् यस्मिन्निति वा निर्भेदं सजातीय- स्वगतभेदशून्यं

आद्यन्तविहीनत्वान्नित्यं अक्रियत्वात् ध्रुवं कूटस्थं निष्कलं निरवयं

अप्रमेयं फलव्याप्तिरहितं अरूपं '"अशब्दमस्पर्शरूपमव्ययं '" इति

श्रुतेः न चक्षुषा गृह्यते इत्यादेश्च । अत एवाव्यक्तं । वागगोचरतामाह

अनाख्यमिति नामशून्यं प्रवृत्तिनिमित्तानां जातिगुणक्रियासंबंधाना-

मभावात् । अव्ययं नव्येति इत्यव्ययं अपक्षयरहितं । ज्योतिः स्वयं

पराप्रकाश्यं । किंचिदिदं अपरोक्षं चकास्ति प्रकाशते । निश्चलतया तत्र

बुद्धे: स्थापनार्थं तत्र तत्र श्रुत्युक्तानि तावन्ति विशेषणानि पुनराह ज्ञातू-
तृ-
ज्ञानज्ञेयशून्यं त्रिपुटीरहितं । तत्रहेतुः अनन्तं परिच्छेदत्रयशून्यमिति ।

अत एव निर्विकल्पकं । केवलाखण्डचिन्मात्रं सर्वोपाधि-संन्ध-विधुरा-

परिच्छिन्न-ज्ञानैकरूपं परं तत्वं बुधाः विदुः । स्वात्मत्वेन अहेयमनुपादेयं

मनोवाचामगोचरं " यतो वाच" इति श्रुतेः अप्रमेयं श्रवणमनन-निदि-

ध्यासन-संस्कृत-मनोवृत्तिव्याप्यं अनाद्यन्तं कालदेशपरिच्छेदशून्यं अतः

पूर्णं महत् सूर्यादिभासकं महः ज्योतिः ब्रह्म इति तत्पदार्थशोधनं ॥
 
"}
 

 
पदार्थों
 
(1
 
शोधयित्वा वाक्यार्थं वक्तुमारभते । तत्त्वमित्यादिना ।

 
तत्त्वंपदाभ्यामभिधीयमानयोः
 

ब्रह्मात्मनोः शोधितयो-र्यदित्थम् ।

श्रुत्या तयोस्तत्त्वमसीति सम्य-

गेकत्वमेव प्रतिपाद्यते मुहुः ॥ २४३ ॥
 

 
तत्वमसीत्यत्र तत्पदेन त्वंपदेन च जगत्कर्तृत्वादिविशिष्टत्वेन

जाग्रदाद्यवस्थाविशिष्टत्वेन च अभिधीयमानयोः शक्त्या बोध्यमानयोः

ब्रह्मात्मनोः ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरीश्वरजीवयोः । इत्थं

पूर्वोक्तप्रकारेण शोधितयोः । तत्वमसीति श्रुत्या तयोः केवलचिन्मात्रयोः

एकत्वमेव मुहुः नवकृत्वः छान्दोग्ये एतादृशयोः भेदे मानाभावात्

सम्यक्प्रतिपाद्यते, तदैक्यमिति उत्तरेण संबंधः ॥ २४३॥