This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
१४७
 
"
 
अतः जगतः पृथक्सत्ताशून्यत्वात् आरोपिततया नाममात्रत्वात् परं
ब्रह्म अबाध्यं विजातीयरहितं निविषय विज्ञानशरीरं अज्ञानास्पृष्टं
अपरिणामि जन्मनाशरहितं अमूर्त अखण्डानन्दविग्रहं निरस्ताः माया-
कृताः सर्वभेदाः यस्मात् यस्मिन्निति वा निर्भेदं सजातीय- स्वगतभेदशून्यं
आद्यन्तविहीनत्वान्नित्यं अक्रियत्वात् ध्रुवं कूटस्थं निष्कलं निरवयं
अप्रमेयं फलव्याप्तिरहितं अरूपं 'अशब्दमस्पर्शरूपमव्ययं ' इति
श्रुतेः न चक्षुषा गृह्यते इत्यादेश्च । अत एवाव्यक्तं । वागगोचरतामाह
अनाख्यमिति नामशून्यं प्रवृत्तिनिमित्तानां जातिगुणक्रियासंबंधाना-
मभावात् । अव्ययं नव्येति इत्यव्ययं अपक्षयरहितं । ज्योतिः स्वयं
पराप्रकाश्यं । किंचिदिदं अपरोक्षं चकास्ति प्रकाशते । निश्चलतया तत्र
बुद्धे: स्थापनार्थं तत्र तत्र श्रुत्युक्तानि तावन्ति विशेषणानि पुनराह ज्ञातू-
ज्ञानज्ञेयशून्यं त्रिपुटीरहितं । तत्रहेतुः अनन्तं परिच्छेदत्रयशून्यमिति ।
अत एव निर्विकल्पकं । केवलाखण्डचिन्मात्रं सर्वोपाधि-संवन्ध-विधुरा-
परिच्छिन्न-ज्ञानैकरूपं परं तत्वं बुधाः विदुः । स्वात्मत्वेन अहेयमनुपादेयं
मनोवाचामगोचरं " यतो वाच इति श्रुतेः अप्रमेयं श्रवणमनन-निदि-
ध्यासन-संस्कृत-मनोवृत्तिव्याप्यं अनाद्यन्तं कालदेशपरिच्छेदशून्यं अतः
पूर्णं महत् सूर्यादिभासकं महः ज्योतिः ब्रह्म इति तत्पदार्थशोधनं ॥
 
"}
 
पदार्थों
 
(1
 
शोधयित्वा वाक्यार्थं वक्तुमारभते । तत्त्वमित्यादिना ।
तत्त्वंपदाभ्यामभिधीयमानयोः
 
ब्रह्मात्मनोः शोधितयो-र्यदित्थम् ।
श्रुत्या तयोस्तत्त्वमसीति सम्य-
गेकत्वमेव प्रतिपाद्यते मुहुः ॥ २४३ ॥
 
तत्वमसीत्यत्र तत्पदेन त्वंपदेन च जगत्कर्तृत्वादिविशिष्टत्वेन
जाग्रदाद्यवस्थाविशिष्टत्वेन च अभिधीयमानयोः शक्त्या बोध्यमानयोः
ब्रह्मात्मनोः ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरीश्वरजीवयोः । इत्थं
पूर्वोक्तप्रकारेण शोधितयोः । तत्वमसीति श्रुत्या तयोः केवलचिन्मात्रयोः
एकत्वमेव मुहुः नवकृत्वः छान्दोग्ये एतादृशयोः भेदे मानाभावात्
सम्यक्प्रतिपाद्यते, तदैक्यमिति उत्तरेण संबंधः ॥ २४३॥