This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
अधिष्ठानमाभाति तथा भ्रमेण, नहि भ्रमस्थले प्रयोजनगवेषणा विफल-

प्रवृत्तेः सिद्धत्वात् ॥ २३७॥
 

 
दृष्टान्तांतरेण जगतः ब्रह्माव्यतिरेकं द्रढयति । भ्रान्तस्येति ।
 

 
भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं
 

ब्रह्मैव तत्तद्रजतं हि शुक्तिः ।

इदंतया ब्रह्म सदेव रूप्यते
 

त्वारोपितं ब्रह्मणि नाममात्रम् ॥ २३८॥
 
१४६
 

 
भ्रान्तस्य भ्रमतः यद्यत्प्रतीतं तत्तत् अधिष्ठानभूतं ब्रह्मैव हि

यस्मात् शुक्त्यज्ञानात् शुक्तौ भातं रजतं शुक्तिरेव तथा ब्रह्मण्यारोपितं

वस्तुतः विचार्यमाणे ब्रह्म सदेव इदंतया रूप्यते तत्तु नाममात्रं

"
वाचारंभणश्रुतेः" इत्यर्थः ॥ २३८॥
 
LL
 

 
प्रपंचस्य मिथ्यात्वेन तत्कारणत्वमपि तत्पदप्रवृत्तिनिमित्तं तादृश-

मेवेति शोधितं तत्पदार्थमुपसंहरति अत इति चतुर्भिः ।

 
अतः परं ब्रह्म सदद्वितीयं
 

विशुद्धविज्ञानघनं निरंजनम् ।

प्रशान्तमाद्यंतविहीनमक्रियं
 

निरंतरानन्द-रसस्वरूपम् ॥ २३९॥
 

 
निरस्तमायाकृत- सर्वभेदं
 

नित्यं ध्रुवं निष्कलमप्रमेयम् ।

अरूपमव्यक्त-मनाख्यमव्ययम्
 

ज्योतिः स्वयं किंचिदिदं चकास्ति ॥ २४०॥
 

 
ज्ञातृज्ञानज्ञेयशून्यमनन्तं निर्विकल्पकम्।

केवलाखण्डचिन्मात्रं परं तत्वं विदुर्बुधाः ॥ २४१ ॥
 

 
अहेयमनुपादेयं मनोवाचामगोचरम् ।

अप्रमेयमनाद्यंतं ब्रह्म पूर्ण महन्महः ॥ २४२॥