This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः ।
 

उपाया देशकालाद्याः सन्त्यस्यां सहकारिणः ॥१४॥
 

 
तत्तत्कर्मणि समर्थस्यैव तत्तत्कर्मफलभोक्तृत्व -सम्भवात् असमर्थस्य

तदयोगात् बाह्यदेशकालादे: सहकारित्वमात्रं, आन्तरसामर्थ्यस्यैव फल-

दायकत्वमित्याह । अधिकारिणमिति ।
 

 
कर्मणां तावत् दृष्टार्थत्वात् "यदाहवनीये जुहोति'" अश्वस्य

पदे जुहोति" "प्राचीनप्रवणे वैश्वदेवेन यजेत " "सायं जुहोति
 
"
 
66
 
66
 
"
"प्रातर्जुहोति" "वसन्ते वसन्ते ज्योतिषा यजेत
 
"
'वसन्ते ब्राह्मणो-
"
 
16
 
११
 
"
 
"
 
ग्नीनादधीत " इत्यादिशास्त्रानुसारेण देशकालयोरप्यसाधारण-कारणत्व-

मंगीकर्तव्यम् । यद्यपि ज्ञानस्यापि "यथाऽदर्शे तथात्मनि यथा स्वप्ने

तथा पितृलोके । यथाप्सु परीव ददृशे तथा गंधर्वलोके छायातपयोरिव

ब्रह्मलोके । " "इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीत् महती

विनष्टि: " इत्यादिश्रुत्यनुसारेण मनुष्यलोक-ब्रह्मलोकयोरेव ज्ञानभूमित्वं

प्रतीयते, एवं "ऋणत्रयमपाकृत्य मनो मोक्षे निवेशयेत् । अनापकृत्य

मोक्षं तु सेवमानो व्रजत्यध: " । " ब्रह्मचर्यं समाप्य गृही भवेत्, गृहाद्वनी

भूत्वा प्रव्रजेत् " इत्यादिप्रमाणानुसारेण ब्रह्मज्ञानान्तरंगभूत-संन्यासस्यापि

कालो विधीयत इव प्रतिभाति । अथापि अशुद्धचित्तो राक्षसराजो

विरोचनः ब्रह्मलोकं गतोपि परमगुरुणा परमेष्ठिना उपदिष्टोपि नैवाग्रही-

दात्मानं । "संसारमेव निस्सारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः

परं वैराग्यमाश्रिताः" । इति "यदिवेतरथा ब्रह्मचर्यादेव प्रव्रजेत्गृहाद्वा

वनाद्वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्" इत्यादिप्रमाणैः वक्ष्यमाण-

वैराग्यादिसाधन-चतुष्टयसंपन्नस्य देशकालौ न विवक्षितौ इत्यभिप्रायेण

तयोस्सहकारित्वमुक्तम् ॥ अत एव "विद्वान् संन्यस्तवाबाह्यार्थसुख-

स्पृहस्सन् " इति विवेक-वैराग्ये ब्रह्मात्मनावस्थान-लक्षण-मोक्षसाक्षा-

द्धेतु-भूतसम्यग्दर्शननिष्ठार्थं मोक्षसाधनोपदेशक -गुरूपसदन -पुरस्सर -तदुप-

दिष्टार्थमनस्समाधाने हेतूकृते । एतादृशमनस्समाधानस्य शमदमोपरति-

तितिक्षा -श्रद्धानामभावे असंभवात् मुक्तीच्छाभावे तदर्थं प्रयत्नासंभवाच्च

"अतो विमुक्त्यै " इत्याद्यश्लोके विवेक-वैराग्य-शमादिषट्कमुमुक्षुत्वानां

जिज्ञासा - -साधारण- हेतूनां सूचनं कृतमेव । तथाच "तरति शोकमात्मवित् "