2023-02-20 14:42:32 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
अधिकारिणमाशास्ते फलसिद्धिविशेषतः ।
उपाया देशकालाद्याः सन्त्यस्यां सहकारिणः ॥१४॥
तत्तत्कर्मणि समर्थस्यैव तत्तत्कर्मफलभोक्तृत्व सम्भवात् असमर्थस्य
तदयोगात् बाह्यदेशकालादे: सहकारित्वमात्रं, आन्तरसामर्थ्यस्यैव फल-
दायकत्वमित्याह । अधिकारिणमिति ।
कर्मणां तावत् दृष्टार्थत्वात् "यदाहवनीये जुहोति' अश्वस्य
पदे जुहोति" प्राचीनप्रवणे वैश्वदेवेन यजेत " सायं जुहोति
"
66
66
"प्रातर्जुहोति" वसन्ते वसन्ते ज्योतिषा यजेत
'वसन्ते ब्राह्मणो-
"
16
११
"
"
ग्नीनादधीत " इत्यादिशास्त्रानुसारेण देशकालयोरप्यसाधारण-कारणत्व-
मंगीकर्तव्यम् । यद्यपि ज्ञानस्यापि "यथाऽदर्श तथात्मनि यथा स्वप्ने
तथा पितृलोके । यथाप्सु परीव ददृशे तथा गंधर्वलोके छायातपयोरिव
ब्रह्मलोके । " इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीत् महती
विनष्टि: " इत्यादिश्रुत्यनुसारेण मनुष्यलोक-ब्रह्मलोकयोरेव ज्ञानभूमित्वं
प्रतीयते, एवं "ऋणत्रयमपाकृत्य मनो मोक्षे निवेशयेत् । अनापकृत्य
मोक्षं तु सेवमानो व्रजत्यध: " । " ब्रह्मचर्यं समाप्य गृही भवेत्, गृहाद्वनी
भूत्वा प्रव्रजेत् " इत्यादिप्रमाणानुसारेण ब्रह्मज्ञानान्तरंगभूत-संन्यासस्यापि
कालो विधीयत इव प्रतिभाति । अथापि अशुद्धचित्तो राक्षसराजो
विरोचनः ब्रह्मलोकं गतोपि परमगुरुणा परमेष्ठिना उपदिष्टोपि नैवाग्रही-
दात्मानं । "संसारमेव निस्सारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः
परं वैराग्यमाश्रिताः" । इति "यदिवेतरथा ब्रह्मचर्यादेव प्रव्रजेत्गृहाद्वा
वनाद्वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्" इत्यादिप्रमाणैः वक्ष्यमाण-
वैराग्यादिसाधन-चतुष्टयसंपन्नस्य देशकालौ न विवक्षितौ इत्यभिप्रायेण
तयोस्सहकारित्वमुक्तम् ॥ अत एव "विद्वान् संन्यस्तवाह्यार्थसुख-
स्पृहस्सन् " इति विवेक-वैराग्ये ब्रह्मात्मनावस्थान-लक्षण-मोक्षसाक्षा-
द्धेतु-भूतसम्यग्दर्शननिष्ठार्थं मोक्षसाधनोपदेशक गुरूपसदन पुरस्सर तदुप-
दिष्टार्थमनस्समाधाने हेतूकृते । एतादृशमनस्समाधानस्य शमदमोपरति-
तितिक्षा श्रद्धानामभावे असंभवात् मुक्तीच्छाभावे तदर्थं प्रयत्नासंभवाच्च
"अतो विमुक्त्यै " इत्याद्यश्लोके विवेक-वैराग्य-शमादिषट्कमुमुक्षुत्वानां
जिज्ञासा - साधारण- हेतूनां सूचनं कृतमेव । तथाच "तरति शोकमात्मवित् "