This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१४५
 
"
 
"(
 
नतु तदधिष्ठानकत्वं मम "स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि,

यदि वा न महिम्न" इति निराधारत्वस्य कथितत्वात् । अतः

जगदधिष्ठानकत्व-भ्रमं निराकरोति "न चाहं तेष्ववस्थित" इति ।
घू

धू
मेन व्याप्तं गृहमित्यादौ गृहाधिकरणकत्वं धूमे प्रतीयते तद्वदिदं मया

ततमित्यादिना ज्ञेयमिति । तथाच नाधिष्ठानाद् भिन्नतारोपितस्येति

ब्रह्माधिष्ठानकं तत्रारेपितं तद्व्यतिरेकेण नास्तीति मिथ्येत्येव व्यचीकथत्

अवोचदित्यर्थः ॥२३५ ॥
 

 
जगन्मिथ्यात्वे युक्तिमाह। यदिति ।
 

 
यदि सत्यं भवेद्विश्वं सुषुप्ताबुवुपलभ्यताम् ।

यन्नोपलभ्यते किंचिदतोऽसत् स्वप्नवन्मृषा ॥ २३६॥
 
2(
 

 
सत्यस्य सदा भानमावश्यकं यथात्मनः । यदि विश्वंजगत् सत्यं

भवेत् सुषुत्प्यवस्थायां उपलभ्यतां । यत् यस्मात् किंचिदपि नोपलभ्यते

"
न किंचिदवेदिषम्" इति स्मृते: अतः स्वप्नवत् जागरे अनुपलभ्यमानः

स्वप्नः यथा असन् तथा । असदित्यस्यार्थ: मृषेति । नतु शशविषाणवदसत्वं

किंतु दृष्टनष्टस्वरूपत्वात् मिथ्या इति भावः ॥ २३६ ॥
 

 
इदानीं ब्रह्मव्यतिरेकेण जगत: अभावं निगमयति । अत इति ।
 

 
अतः पृथङ्नास्ति जगत्परात्मनः
 

पृथक्प्रतीतिस्तु मृषा गुणाहिवत् ।

आरोपितस्यास्ति किमर्थवत्ताऽ
 

धिष्ठानमाभाति तथा भ्रमेण ॥ २३७॥
 

 
अतः स्वप्नवत् सदा उपलंभाभावात् जगत् परात्मनः ब्रह्मणः

पृथक् नास्ति व्यवहारदशायां पृथग्घटादिरूपेण प्रतीति: गुणाहिवत्

गुणः रज्जुः, अहिः सर्पः, रज्वामारोपितः यथा मृषा तथा जगदपि मृषा

तु मषैवेत्यर्थः । अर्थक्रियाकारित्वाभावादपि मृषात्मत्वमाह आरोपितस्येति ।

आरोपितस्य कल्पितस्य अर्थवत्ता प्रयोजनवत्ता अर्थाक्रियाकारित्वमिति

यावत् अस्ति किं ? नास्त्येवेति भावः । तर्हि कुतः प्रतीतिरत आह अधीति,